________________
४३
ईश्वरपरीक्षा घट इति; न चाननुभूते स्मृतिर्युक्ता, तत्कथमिदं समुदायविषयं स्मार्तं ज्ञानमुत्पद्यते? नैतदस्ति; न हि रूपादिभ्योऽन्यः समुदायः प्रागनुभूत इत्युच्यते, येनैतत् स्यात्, किन्तु त एव रूपादयः सलिलादिधारणार्थक्रियाकारिणः समुदायो घट इति व्यपदिश्यन्ते । तेषु च प्रत्येकमिन्द्रियज्ञातानुभूतेषु यथासङ्केताहितभेदम् 'घटः' इति स्मरणमुत्पद्यत इत्यभिधीयते।
अथ वा-कल्पितः समुदायः कल्पनाज्ञानात्मकत्वात् स्वसंविदानुभूयत एवेति किमिति तस्य स्मरणं नोत्पद्यत इति! अत: 'स्वारम्भकावयवसन्निवेशविशिष्टत्वात्' इत्यस्य हेतोराश्रयासिद्धता। कस्मात् ? इत्याह
आश्रयासिद्धता; असिद्धेर्यथाऽभिहितधर्मिणः॥६०॥ यथाभिहितस्य द्वीन्द्रियग्राह्यस्य' धर्मिणोऽसिद्धेः कारणादाश्रयैकदेशासिद्ध्या हेतोरसिद्धिः ॥ ५९-६० ॥
तदेवं विशेष्यविशेषणाश्रयाणामसिद्धेस्त्रिविधा हेतोरसिद्धतोक्ता, चतुर्थमप्या- [G.47] चार्यनिर्दिष्टमसिद्धिप्रकारमाह
सन्निवेशविशिष्टत्वं यादृग्देवकुलादिषु। - कर्तर्यनुपलब्धेऽपि यदृष्टौ बुद्धिमद्गतिः॥६१॥
यो हि सनिवेशविशेषो बुद्धिमत्पुरुषव्यापारपूर्वकत्वेन देवकुलादिष्वन्वयव्यतिरेकाभ्यां लोके प्रसिद्धः, यस्य दर्शनाददृष्टतत्कर्तृकस्यापि बुद्धिमत्कारणावगतिर्भवति, तथाभूतो यदि तनुतरुगिरिप्रभृतिषु साध्यधर्मिषु हेतुत्वेनोपादीयते, तदा स्याद्भवताभिमतसाध्यसिद्धिः। न ह्यन्वयव्यतिरेकाभ्यां सुविवेचितं कार्य कारणं व्यभिचरति; तस्याहेतुकत्वप्रसङ्गात्। न च तथाभूतसन्निवेशविशेषस्तनुतरुगिरिप्रभृतिषु प्रसिद्धः, केवलं सन्निवेश इति प्रलापमानं प्रसिद्धम्। न च प्रकृत्या परस्परमर्थान्तरत्वेन व्यवस्थितोऽपि धर्मः शब्दमात्रेणाभेदी हेतुत्वेनोपादीयमानोऽभिमतसाध्यसिद्धये पर्याप्तो भवति; साध्यविपर्ययेऽपि तस्य भावाविरोधात् । तथा वल्मीके धर्मिणि कुम्भकारकृतत्वसिद्धये मृद्विकारमात्रं हेतुत्वेनोपादीयमानमिति समुदायार्थः।।
अवयवार्थस्तूच्यते – यदृष्टौ बुद्धिमद्गतिरिति । यस्य-सन्निवेशस्य, दृष्टौ सत्याम्, बुद्धिमतः कारणस्य, गतिः=अनुमितिर्भवतीत्यर्थः ॥ ६१॥ ....... - तादृगेव यदीक्ष्येत तन्वगादिषु धर्मिषु। ..
युक्तं तत्साधनादस्माद् यथाऽभीष्टस्य साधनम्॥६२॥ तन्वगादिष्विति । तनुः शरीरम्, अगाः पर्वताः, वृक्षा वा। आदिशब्देन सागरादयो गृह्यन्ते। यथाभीष्टस्येति बुद्धिमत्पूर्वकत्वस्य। साधनमिति सिद्धिः ॥ ६२ ॥
कथं युक्तम्? इत्याह
- अन्ययव्यतिरेकाभ्यां यत्कार्यं यस्य निश्चितम्। . निश्चयस्तस्य तदृष्टाविति न्यायो व्यवस्थितः ।।६३॥
यत्कार्यमिति धूमादि। यस्येति अनलादेः। निश्चयस्तस्येति अनलादेरेव। [G.48] तदृष्टाविति। धूमादिकार्यदृष्टौ सत्याम् ॥ ६३॥ १. ०ग्राह्यधर्मि०-पा०, गा० ।