________________
४२
तत्त्वसंग्रहे साधनानन्वितं चेदमुदाहरणमप्यतः॥५७॥ __एवं तावद्विशेषणविशेष्यासिद्ध्या स्वरूपतोऽसिद्धत्वं हेतोः प्रतिपादितम्, इदानीमाश्रयैकदेशासिद्ध्याऽप्यसिद्धत्वमिति दर्शयति
चक्षुःस्पर्शनविज्ञानं भिन्नाभमुपजायते।
एकालम्बनता नास्ति तयोर्गन्धादिवित्तिवत्॥५८॥ अत्र हि द्विविधो धर्मी निर्दिष्टः- द्वीन्द्रियग्राह्यम्, अग्राह्यं च। तत्र द्वीन्द्रियग्राह्यो न कश्चिद्धर्मी सिद्धः । तथा हि-चक्षुर्ज्ञानं स्पर्शज्ञानं चोभयं यथाक्रमं नीलादिरूपमात्रप्रतिभासित्वात् कर्कशादिस्प्रष्टव्यभेदमात्रप्रसिद्धत्वाच्च भिन्नाभमुपजायते, ततश्च तयोश्चक्षुःस्पर्शनविज्ञानयोरेकविषयता नास्ति; भिन्नाभत्वाद्गन्धरसादिवित्तिवत् । प्रयोगोऽयम्-भिन्नप्रतिभासे ज्ञाने ते नैकविषये, यथा गन्धरसविज्ञाने । भिन्नाभे च चक्षुःस्पर्शविज्ञाने इति व्यापकविरुद्धोपलब्धिः। आभासभेदेऽप्येकविषयत्वे रूपशब्दादिवित्तीनामप्येकविषयत्वप्रसङ्ग इत्येतदत्र बाधकं प्रमाणम्॥५८॥
यदि तर्हि नैकविषयतानयोः, तत् कथमिदं प्रतिसन्धानज्ञानं भवति- 'यः प्रकाशे मया दृष्टो घट: स एवान्धकारे स्पृश्यते' इति, तस्मादनुमानबाधितेयं प्रतिज्ञा। तत्रेदमनुमानमुद्द्योतकरोक्तम्- "विवादविषयापन्नौ दर्शनस्पर्शनप्रत्ययावेकविषयौ, प्रतिसन्धीयमानत्वात्, नीलोत्पलप्रत्ययवत्" (न्या०वा० ) इति तत्राह
तत्सामर्थ्यसमुद्भूतकल्पनानुगतात्मकम् । प्रतिसन्धानविज्ञानं समुदाय व्यवस्यति॥५९।।
जलानलादि नैवेदं द्वीन्द्रियग्राह्यमस्त्यतः। तयोः वर्णस्प्रष्टव्यमात्रप्रतिभासिनोश्चक्षुःस्पर्शनविज्ञानयोः, सामर्थ्यम्=शक्तिः, [G.46] ततः समुद्भूतः ततः कल्पनानुगत आत्माऽस्येति विग्रहः। तदनेन प्रतिसन्धानप्रत्ययस्याप्रत्यक्षत्वं प्रतिपादितं भवति। अनेकस्मिन्नेकत्वाध्यवसायित्वेनास्य भ्रान्तित्वात्, कल्पनानुगतात्मत्वाच्च। नापि प्रमाणान्तरम्; पूर्वज्ञानपरिच्छिन्नविषयाध्यवसायित्वेन' गृहीतंग्रहणात्, भ्रान्तत्वाच्च। तस्मात् 'प्रतिसन्धीयमानत्वात्' इत्यनैकान्तिको हेतुः।।
__यदि हि प्रतिसन्धानप्रत्ययस्य प्रामाण्यं सिद्धं भवेत् तदा न स्याद्धेतोरनैकान्तिकता; यावता येषु रूपादिषु 'साधारणसामर्थ्यप्रकाशनाय घटादिप्रज्ञप्तयः कृताः, तेषु यथास्वं चक्षुःस्पर्शनाभ्यामनुभूतेषूत्तरकालं यथापरिदृष्टविषयमनुरूपसङ्केताहितसंस्कारभेदमेकत्वाध्यवसायि प्रकृतिभ्रान्तं स्मार्त्तमिदं ज्ञानमुत्पद्यते। तथा हि- तथा समन्वाहारे तत्र वर्णोऽपि नीलादिः प्रतिभासते। न च स्पर्शनविज्ञाने वर्णप्रतिभासनं युक्तम्; तस्य चक्षुर्विज्ञानविषयत्वात्। तस्माद्यदेतदा चारुक्तम्-"चक्षुःस्पर्शनाभ्यां यथास्वं भिन्न विषयमुपलभ्यान्यदेव तत्सहचरं समुदायविषयं स्मार्त्तमभेदज्ञानमुत्पद्यते" ( ) इति, तदेव न्याय्यम्।
ननु यदि समुदायः प्रागनुभूतः स्यात्, तदा स्मार्त्तमिदं युक्तम्, यावता न रूपादिव्यतिरिक्त: समुदायो भवतामभीष्टो येनासावनुभूयेत; रूपादिषु चानुभूतेषु रूपादिरिति स्यात्, न १.०विषयावसायित्वेन-गा० । २. साधारणा सामर्थ्य०-पा०; साधारणा (:) सामर्थ्य०-गा।