________________
ईश्वरपरीक्षा तथा अपरं प्रमाणकदम्बकं तैरुक्तम्- "विचित्रोदयप्रस्पन्दास्पदानास्पदं विमत्यधिकरणभावापन्नं द्वितीयादिप्रमाणपञ्चकव्यतिरिक्तप्रमाणान्तरावच्छेद्यम्; वस्तुत्वादिभ्यः, रूपादिवत् । वैधhण कूर्मरोमादयः" ( ) इति । तत्र विचित्रोदयो गुणपदार्थ उच्यते, विचित्र उदयोऽस्येति कृत्वा, प्रस्पन्दः कर्मपदार्थः, तयोरास्पदम्-समवायिकारणं द्रव्यम्। अनास्पदम्-गुणादयः पञ्च समवायपर्यन्ताः, द्वितीयादिप्रमाणपञ्चकमनुमानमारभ्याभावपर्यन्तम्, तद्व्यतिरिक्तं प्रमाणान्तरं प्रत्यक्षम्। शेषं सुबोधम्। ___अयमपरो हेतुस्तैरुक्त:- "सदाद्यविशेषास्कन्दितानास्कन्दितं विमत्यधिकरणभावापन्नं कस्यचित् प्रत्यक्षम्; सत्त्वाद्, रूपादिवत्" ( ) इति । तत्र सदादयः षडविशेषाःसदनित्यं द्रव्यवत् कार्य कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषाः, तैरास्कन्दितमाक्रान्तं यथासम्भवं द्रव्यगुणकर्मात्मकं पदार्थत्रयम्, अनास्कन्दितं सामान्यादि। शेषं सुगमम्। तदेतत् प्रमाणकदम्बकं दर्शयति
विमतेरास्पदं वस्तु प्रत्यक्षं कस्यचित् स्फुटम्। वस्तुसत्त्वादिहेतुभ्यः सुखदुःखादिभेदवत्॥५५॥
(उत्तरपक्षः) तदत्रासिद्धतेत्यादिनोत्तरपक्षमारभते
तदत्रासिद्धता हेतोः प्रथमे साधने यतः।
सन्निवेशो न योगाख्यः सिद्धो नावयवी तथा॥५६॥ तत्र 'यदचेतनं तदधिष्ठातारमन्तरेण न स्वकार्यमारभते' इत्यादौ प्रयोगे साध्यविपर्यये हेतोर्बाधकप्रमाणाभावात् सन्दिग्धविपक्षव्यावृत्तिकतया हेतोरनैकान्तिकतेति भावः । यच्चायम् 'स्वारम्भकावयवसनिवेशविशिष्टत्वात्' इति हेतुः प्रथमे साधनप्रयोगे, सोऽसिद्धः । कथम्? इत्याह- यत इत्यादि। अवयवसनिवेशशब्देन हि संयोगविशेषोऽभिप्रेतः, तद्विशिष्टत्वं चावयव्याख्यस्य द्रव्यस्य, तयोरपि विशेषणविशेष्ययोरसिद्धत्वाद् द्विधा हेत्वसिद्धिः ॥५६॥ ___ कथं पुनर्द्वयमसिद्धम् ? इत्याह
दृश्यत्वेनाभ्युपेतस्य द्वयस्यानुपलम्भनात्। [G.45] तत्र संक्षेपेण स्वभावानुपलम्भाख्यमेव प्रमाणं बाधकमाह। विस्तरेण षट्पदार्थपरीक्षायामनयोर्दूषणमभिधास्यते। द्वयस्यापीति। सन्निवेशावयविसम्मतस्य। तथा हि-सन्निवेशो दृश्यत्वेनाभ्युपेतः; "सङ्ख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिसमवायाच्चाक्षुषात्' (वै० द० ४.१.१२) इति वचनात्। अवयवी च दृश्यत्वेनेष्टः; "महत्यनेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धिः " (वै० द० १.१.६) इति वचनात्। न च रूपादिव्यतिरेकेणापरः संयोगोऽवयवी च दृश्यत्वेनेष्टो बुद्धौ प्रतिभासत इति, अत उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः शशविषाणवदसव्यवहारविषयता। न च परमाणूनामतीन्द्रियत्वाद् रूपादीनामनुपलब्धिप्रसङ्गः; विशिष्टानामिन्द्रियगम्यत्वाभ्युपगमादतीन्द्रियत्वासिद्धेः । अत एव संयोगावयविनोरभावात् साधर्म्यदृष्टान्तो घटः साधनधर्मविकल इति दर्शयति१. ०कर्मणां विशेषा:- पा०, गा०। .. २. महदनेक०-गा। ३. पा०, गा० पुस्तकयो स्ति।