________________
४०
तत्त्वसंग्रहे
धर्माधर्माणवस्सर्वे चेतनावदधिष्ठिताः । स्वकार्यारम्भकाः स्थित्वा प्रवृत्तेस्तुरितन्तुवत् ॥ ५० ॥ सुबोधम् ॥ ५० ॥
[G.43] प्रशस्तमतिस्त्वाह - "सर्गादौ पुरुषाणां व्यवहारोऽन्योपदेशपूर्वकः, उत्तरकालं प्रबुद्धानां प्रत्यर्थनियतत्वात् । अप्रसिद्धवाग्व्यवहाराणां कुमाराणां गवादिषु प्रत्यर्थनियतो वाग्व्यवहारो यथामात्राद्युपदेशपूर्वकः " ( ) इति । प्रबुद्धानां प्रत्यर्थनियतत्वादिति, प्रबुद्धानां सतां प्रत्यर्थनियतत्वादित्यर्थः । यदुपदेशपूर्वकः सर्गादौ व्यवहारः स ईश्वरः प्रलयकालेऽप्यलुप्तज्ञानातिशय इति सिद्धं दर्शयति
सर्गादौ व्यवहारश्च पुंसामन्योपदेशजः ।
नियत्वात् प्रबुद्धानां कुमारव्यवहारवत् ॥ ५१ ॥
सर्गः=सृष्टिः, उत्पाद इति यावत् । तस्यादिः प्रथमः कालः । शेषं तु सुबोधम् ॥ ५१ ॥ तथा अपराण्युद्द्द्दयोतकरोक्तानि प्रमाणानि - " बुद्धिमत्कारणाधिष्ठितं. महाभूतादिकं व्यक्तं सुखदुःखनिमित्तं भवति, अचेतनत्वात्, कार्यत्वाद्, विनाशित्वाद्, रूपादिमत्त्वात्, वास्यादिवत्" (न्या० वा० ४.१.२१ ) इति । एतानि दर्शयति
महाभूतादिकं व्यक्तं बुद्धिमद्धेत्वधिष्ठितम् ।
याति सर्वस्य लोकस्य सुखदुःखनिमित्तताम् ॥ ५२ ॥ अचेतनत्वकार्यत्वविनाशित्वादिहेतुतः
1
वास्यादिवदतस्स्पष्टं तस्य सर्वं प्रतीयते ॥ ५३ ॥
बुद्धिमद्धेत्वधिष्ठितम्-चेतनावताधिष्ठितम्। अतइति यथोक्ताद् हेतुकदम्बकात् । तस्येति ईश्वरस्य सर्वजगद्धेतोः ॥ ५२-५३ ॥
अथ सर्वज्ञत्वं कथं तस्य सिद्धम्, येनासौं निःश्रेयसाभ्युदयकामानां भक्तिविषयतां 'यायात् ? इत्याह
सर्वकर्तृत्वसिद्धौ च सर्वज्ञत्वमयत्नतः । -
सिद्धमस्य यतः कर्ता कार्यरूपादिवेदकः ॥ ५४ ॥
तथा चाहुः प्रशस्तमतिप्रभृतयः - " सकलभुवनहेतुत्वादेवास्य सर्वज्ञत्वं सिद्धम्, कर्तुः कार्योपादानोपकरणप्रयोजनसम्प्रदानपरिज्ञानात् । इह हि यो यस्य कर्ता भवति स तस्योपादानादीनि जानीते । यथा कुलालः कुम्भादीनां कर्त्ता तदुपादानं मृत्पिण्डम्, उपकरणानि च चक्रादीनि, प्रयोजनमुदकाहरणादि, कुटुम्बिनं च सम्प्रदानं जानीत इत्येतत् प्रसिद्धम् ; तथेश्वरः सकलभुवनानां कर्ता, स तदुपादानानि परमाण्वादिलक्षणानि तदुपकरणानि धर्माधर्मदिक्कालादीनि, व्यवहारोपकरणानि सामान्यविशेषसमवायलक्षणानि, प्रयोजनमुपभोगं [G.44] सम्प्रदानसंज्ञकाँश्च पुरुषान् जानीते इति, अतः सिद्धमस्य सर्वज्ञत्वम्" ( ) इति । 'कार्यरूपादिवेदक इति । कार्यस्य ये रूपादय: = स्वभावादय: । आदिशब्देनोपादानादीनां ग्रहणम्, तेषां वेदक इति समासः । याजकादेराकृतिगणत्वात् (पा०सू० २.२.९), कर्मण्यणं ( पा० सू० ३.२.१) वा विधाय स्वार्थिकः को विधेयः । शेषं सुबोधम् ॥ ५४ ॥
1