________________
ईश्वरपरीक्षा पलब्धिः" (वै० द० ४.१.६) । “अद्रव्यवत्त्वात् 'परमाणावनुपलब्धिः " (वै०द० ४.१.७)। "रूपसंस्काराभावाद्वायोरनुपलब्धिः " (वै० द० ४.१.८)।"रूपसंस्कार:= रूपसमवायः । व्यणुकादीनां त्वनुपलब्धिः , अमहत्त्वात्" (द्र०-वै० द० उ० ४.१.६-७) इति।
तत्र सामान्येन द्वीन्द्रियग्राह्याग्राह्यस्य बुद्धिमत्कारणपूर्वत्वसाधने सिद्धसाध्यता दोष:३; घटादिषूभयसिद्धेर्विवादाभावात् ।
अभ्युपेतबाधा च; अण्वाकाशदीनां तथाऽनभ्युपगमात् । तेषां च नित्यत्वात् [G.42] प्रत्यक्षादिबाधा । अतस्तदर्थं विमत्यधिकरणभावापन्नग्रहणम्। विविधा मतिर्विमतिः, विप्रतिपत्तिरिति यावत्, तस्या अधिकरणभावापन्नं विवादास्पदीभूतमित्यर्थः । एवंविधे सति शरीरेन्द्रियभुवनादय एव पक्षीकृता इति नाण्वादिषु प्रसङ्गः कारणमात्रपूर्वत्वेऽपि साध्ये सिद्धसाध्यता मा भूदिति बुद्धिमत्कारणग्रहणम्। सांख्यं प्रति "बुद्धिमत्त्वानुपपत्तेन सिद्धसाध्यता, अव्यतिरिक्ता हि बुद्धिः प्रधानात् सांख्यैरिष्यते। न च तेनैव तदेव तद्वद्भवति।
स्वारम्भकाणामवयवानां सन्निवेश::प्रचयात्मक: संयोगः । तेन विशिष्टं व्यवच्छिन्नयू, तद्भावस्तस्मात् । अवयवसनिवेशविशिष्टत्वं गोत्वादिभिर्व्यभिचारीत्यतः स्वारम्भकग्रहणम्। गोत्वादीनि तु द्रव्यारम्भकावयवसन्निवेशेन विशेष्यन्ते, न तु स्वारम्भकावयवसन्निवेशेनेति । तेन योऽसौ बुद्धिमान् स ईश्वर इति।
तदेतत्प्रमाणम् 'यत्' इत्यादिश्रोकद्वयेन निर्दिष्टम्। स्वारम्भकावयवसन्निवेश एव विशेषः विशेषणं सोऽस्यास्तीति तत्तथोक्तम् । तेन विशिष्टमित्यर्थः । एतेन हेतोर्व्याप्तिर्दर्शिता ॥४७॥
पक्षधर्मत्वादि दर्शयन्नाह- . . - द्वीन्द्रियग्राह्यमग्राह्यं विवादपदमीदृशम्।
बुद्धिमत्पूर्वकं तेन वैधयेणाणवो मताः॥४८॥ विवादपदमिति। विवादाधिकरणापन्नमित्यर्थः ।। ४८ ॥ द्वितीयं च तदुक्तं प्रमाणं बोधयन्नाह... २. तन्वादीनामुपादानं चेतनावदधिष्ठितम्।
रूपादिमत्त्वात्तन्त्वादि यथा दृष्टं स्वकार्यकृत्॥४९॥ तन्वादीनाम् शरीरादीनाम्, उपादानम्=परमाण्वादि, चेतनेन कारणेनाधिष्ठितं सत् स्वकार्यकृदिति सम्बन्धः। रूपादिमत्त्वादिति हेतुः। तन्त्वादीति दृष्टान्तः। यथोक्तम्"तनुभुवनकरणोपादानानि चेतनावदधिष्ठितानि स्वकार्यमारभन्त इति प्रतिजानीमहे; रूपादिमत्त्वात्, तन्त्वादिवत्" ( ) इति ॥ ४९ ॥
उद्द्योतकरस्तु प्रमाणयति- "भुवनहेतवः प्रधानपरमाण्वदृष्टाः स्वकार्योत्पत्तावतिशयबुद्धिमन्तमधिष्ठातारमपेक्षन्ते; स्थित्वा प्रवृत्तेः, तन्तुतुर्यादिवत्" (न्या० वा० ४.१.२१) इति। .
एतदेव दर्शयति१. परमाण्वाव (घ)- गा० । २. अत्र-पा०; गा० । ३-३. 'दोषो घटादिषु। उभयसिद्धः। विवादाभावात् ।'- गा० । ४. अस्या- गा०। ५. बुद्धिसत्त्वा०-गा। ६. गा० संस्करणसम्पादक: प्रायोऽत्र 'उद्योतकार' इति पठति।