________________
२. ईश्वरपरीक्षा
- (पूर्वपक्षः) इदानीमीशव्यापाररहितत्वं प्रतिपादयन्नाह
सर्वोत्पत्तिमतामीशमन्ये हेतुं प्रचक्षते। अनुत्पत्तिमतामण्वाकाशादीनां नित्यत्वान्न किञ्चित् कारणमस्तीत्यत: 'उत्पत्तिमताम्' इत्युक्तम्। ईशमिति ईश्वरम्। अन्य इति नैयायिकादयः । तत्र विशिष्टगुणमात्मान्तरमेव सर्वस्य जगतः कर्तृ सर्वज्ञमीश्वरमिति केचित्। आत्मव्यतिरिक्तं नित्यैकसर्वार्थविषयबुद्ध्युपेततया [G.41] भिन्नगुणत्वाद् द्रव्यान्तरमेवेत्यपरे।
... ननु धर्माधर्मपरमाण्वादि जगतः कारणमस्त्येव, तत्किमर्थमीश्वरमपरं कारणत्वेन कल्पयन्ति? इत्यत आह
नाचेतनं स्वकार्याणि किल प्रारभते स्वयम्॥४६॥ . यद्यपि धर्मादि कारणम्, तथापि तदचेतनत्वादधिष्ठायकमन्तरेण न स्वयं स्वकार्यमारब्धुमुत्सहत इत्यतस्तदधिष्ठायकेन केनचित् का भवितव्यम्, न हि किञ्चिदचेतनं स्वतन्त्रमधिष्ठायकं दृष्टमिति । प्रयोगः- यदचेतनं तदधिष्ठातारमन्तरेण न स्वकार्यमारभते, यथा मृत्पिण्डदण्डसलिलसूत्रादयः कुम्भकाररहिताः कुम्भम्। अचेतनं च धर्मादीति' व्यापकविरुद्धोपलब्धिः । तस्माद्योऽसावधिष्ठाता स ईश्वर इति सिद्धम्। न चैवं सति धर्माधर्मादीनां वैयर्थ्यम्; निमित्तकारणत्वादीश्वरस्येति।
स्यादेतद्- यदात्मसमवेतौ धर्माधर्मों स एवात्माऽधिष्ठाता भविष्यति, तत्किमीश्वरेण परिकल्पितेनेति? तदसम्यक्; तस्यात्मनस्तदानीमज्ञत्वात्। यावद्धि तस्य शरीरेन्द्रियादिः कार्यकारणसङ्घातो नोत्पद्यते, तावदयमज्ञ उपलभ्यानपि रूपादीन् विषयान्नोपलभते, कुतोऽनुपलभ्यौ धर्माधर्मावुपलप्स्यत इति । यथोक्तम्
"अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा"।
__ (द्र० न्या० वा० ४.१.२१) इति ॥ ४६॥ अत्रा विद्धकर्णोपन्यस्तमीश्वरसाधने प्रमाणद्वयमाह- .
१. यत् स्वारम्भकावयवसन्निवेशाविशेषवत्।
बुद्धिमद्धेतुगम्यं तत् तद्यथा कलशादिकम्॥४७॥ तदक्तम्- "द्वीन्द्रियग्राह्याग्राह्यं विमत्यधिकरणभावापन्नं बुद्धिमत्कारणपूर्वकम्, स्वारम्भकावयवसनिवेशविशिष्टत्वात्; घटादिवत् । वैधhण परमाणवः' इति । तत्र-द्वाभ्यां दर्शनस्पर्शनेन्द्रियाभ्यां ग्राह्यं महदनेकद्रव्यवत्त्वरूपाद्युपलब्धिकारणोपेतं पृथिव्युदकज्वलनसंज्ञितं त्रिविधं द्रव्यं द्वीन्द्रियग्राह्यं वाय्वादि; यस्मान्महत्त्वमनेकद्रव्यवत्त्वं रूपसमवायादिश्चोपलब्धिकारणमिष्यते, तच्च वाय्वादौ नास्ति । यथोक्तम्- "महत्यनेकद्रव्यवत्त्वाद् रूपोच्चो। धमादोनोति–पा.. गा।