SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ प्रकृतिपरीक्षा ३७ तादेश्चोपपद्यमानत्वाद् विरुद्धता हेतूनामिति । तथा हि-यदि प्रधानं व्यक्तस्य कारणं स्यात्, तदा तदात्मत्वेन सर्वमेव विश्वं तत्स्वरूपवदेकमेव द्रव्यं स्यात् । ततश्चैका बुद्धिः, 'एकोऽहङ्कारः, पञ्च तन्मात्राणीत्यादिपरिमाणविभागो न स्यात् । तथा च सति निष्परिमाणमेव जगत् स्यात् । तथा कुलालादीनां घटादिकरणे शक्तितः प्रवृत्तिः प्रधानहेत्वभावे उपपद्यते, न तु तद्भावे । यथोक्तं प्राक् – " न च शक्तिर्न च क्रिया' (तत्त्व० २१) इति । कार्यकारणविभागोऽपि प्रधानहेत्वभाव एव सति युक्त इति पूर्वमावेदितम् । वैश्वरूप्यं च प्रधाने सति नोपपद्यत एव; तन्मयत्वेन सर्वस्य जगतः तत्स्वरूपवदेकत्वप्रसङ्गादित्युक्तम्, ततश्च वैश्वरूप्यमादित एव नास्तीति कुतस्तस्याविभागः स्यादिति ॥ ४५ ॥ इति प्रकृतिपरीक्षा ॥ १. पा०, गा० पुस्तकयोर्नास्ति । २. पा०, गा० पुस्तकयोर्नास्ति ।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy