________________
तत्त्वसंग्रहे
मुख्यमिष्टम्, किं तर्हि ? गौणम्; यतोऽचैतन्यादिव्यावृत्ताः सर्व एव पुमांसः, तेनार्थान्तरव्यावृत्तरूपा चैतन्यं जातिस्तदनुगामिनी कल्प्यते, न त्वेका तात्त्विकी सास्तीति ? यद्येवम्; तदमुख्यम् सुखाद्यन्वितत्वमसत्यपि तथाभूतैककारणपूर्वत्वे पुरुषवत् इहापि व्यक्ते किमिति समम्= तुल्यं न कल्प्यते । तस्मादनैकान्तिको हेतुः । पुरुषाणामित्युपलक्षणम्. तथा सुखायो मूलप्रकृत्यवस्थाभाविनो गुणत्वाचेतनत्वाभोक्तृत्वादिभिरन्विताः, प्रधानपुरुषाश्च नित्यत्वादिभिर्युक्ताः, न च ते तथाभूतैककारणपूर्वका इत्यनैकान्तिक एव ॥ ४४ ॥
एवं तावत् 'समन्वयात्' इत्ययं हेतः प्रतिषिद्धः । साम्प्रतं निगमनव्याजेन परिशिष्टहेतुदूषणार्थं दिङ्मात्रमाह
३६
प्रधानहेत्वभावेऽपि ततः सर्वं प्रकल्पते ।
शक्तेर्भेदेन वैचित्र्यं कार्यकारणतादिकम् ॥ ४५ ॥
तत्र यत्तावदुक्तम्–“परिमाणाच्छक्तितः प्रवृत्तेः कार्यकारणभावाच्चास्ति प्रधानम्" (सां० का० १५) इति। एते त्रयोऽपि हेतवोऽनैकान्तिकाः; साध्यविपर्यये बाधकप्रमाणानुपदर्शनात्। प्रधानाख्यस्य हेतोरभावेऽप्येषां परिमाणादीनामविरोधात् । तथा हि-यदि तावत् कारणमात्रस्यास्तित्वं साध्यते, तदा सिद्धसाध्यता । न हि अस्माकं कारणमन्तरेण कार्यस्योत्पादोऽभीष्टः; कारणमात्रस्य च ' प्रधानम्' इति संज्ञाकरणे न किञ्चिद् बाध्यते ।
अथैवं साध्यते—‘अस्ति प्रेक्षावत् कारणम्, यदेतन्नियतपरिमाणं व्यक्तमुत्पादयति, शक्तितश्च प्रवर्त्तते' इति, तदाऽनैकान्तिकता; विनापि हि प्रेक्षावता कर्त्रा स्वहेतुसामर्थ्यप्रतिनियमात् प्रतिनियतपरिमाणादियुक्तस्योत्पत्त्यविरोधात् । न चापि प्रधानं प्रेक्षावद्युक्तम्; तस्याचेतनत्वात्, प्रेक्षायाश्च चैतन्यपर्यायत्वात् ।
किञ्च – 'शक्तितः प्रवृत्तेः' इत्येन यद्यव्यतिरिक्तशक्तियोगि कारणमात्रं साध्यते, तदा सिद्धसाध्यता। अथ व्यतिरिक्तविचित्रशक्तियुक्तमेकं नित्यं कारणम्; [G.40] तदाऽनैकान्तिकता हेतोः। तथाभूतेन क्वचिदप्यन्वयासिद्धेरसिद्धश्च हेतुः । न हि व्यतिरिक्तशक्तिवशात् कस्यचित् कारणस्य क्वचित् कार्ये प्रवृत्तिः सिद्धा; शक्तीनां स्वात्मभूतत्वात्। यच्चोक्तम्– " अविभागाद्वैश्वरूपस्य" (सां० का० १५) इति, तदसिद्धम् ; निरन्वयविनाशधर्मत्वात् सर्वभावानां क्वचिदपि लयासिद्धेः । तथा हि-लयो भवन्पूर्वस्वभावप्रच्युतौ वा सत्यां भवेद् ? अप्रच्युतौ वा ? यदि तावत् प्रच्युतौ तदा निरन्वयविनाशप्रसङ्गः । अथाप्रच्युतौ तदा लयानुपपत्तिः । न ह्यविकलमात्मतत्त्वमनुभवतः कस्यचिल्लयो युक्तः; अतिप्रसङ्गात् । तस्मात् परस्परविरुद्धमिदम् — अविभागः, वैश्वरूप्यं चेति ।
तदेवं प्रधानहेत्वभावेऽपि कारणस्य शक्तिभेदेन हेतुना कार्यस्य परिमाणादिरूपेण वैचित्र्यं कार्यकारणविभागादिश्चोत्पद्यत इत्यनैकान्तिकता हेतूनाम् । आदि शब्देन 'शक्तितः प्रवृत्तेः' इत्येतस्य ग्रहणम् ॥
अथ वा- प्रधानहेत्वभावेऽपीत्यपिशब्दोऽवधारणे । तेनायमर्थो भवति - प्रधानहेत्वभाव एव कारणशक्तिभेदेन हेतुना कार्यस्य परिमाणादिरूपेण वैचित्र्यस्य' कार्यकारण१. वैचित्र्यं वा० ।