________________
प्रकृतिपरीक्षा
३५ यावता कार्यस्यानित्यत्वानेकत्वधर्मान्वयदर्शनात् तत्कारणमपि तथैवानुमीयते; नित्यस्य क्रमाक्रमाभ्यामर्थक्रियाविरोधात् । कारणभेदकृतत्वाच्च कार्यवैचित्र्यस्य; अन्यथा निर्हेतुकत्वप्रसङ्गात् । तस्मान्न नित्यैकरूपप्रधानसिद्धिः । यदि पुनरनित्यानेकरूप एव कारणे प्रधानमिति संज्ञा क्रियेत, तदा नास्ति विवाद इति भावः ॥ ४१ ॥ कस्मात् पुनरेकजात्यन्वितं व्यक्तं न भवति? इत्याह
__ अयःशलाकाकल्पा हि, यथा ह्ययोमय्यः शलाका: परस्परमसङ्गतास्तद्वदिमाः शब्दादिव्यक्तयः स्वस्वभावव्यवस्थिततया देशकालशक्तिप्रतिभासादिभेदान्न परस्परमन्वाविशन्ति। एतेनानेकत्वं प्रतिपादितम्।। अनित्यत्वप्रतिपादनायाह
क्रमसङ्गतमूर्तयः। दृश्यन्ते व्यक्तयः सर्वाः, उत्पादक्रमेण सङ्गता-समालिङ्गिता मूर्तिर्यासामिति विग्रहः । कथं तर्हि सत्सदित्यादिनैकेन रूपेण तथा 'स एवायम्' इति च स्थिरेण स्वभावेनानुगता व्यवसीयन्ते भावाः?
इत्याह
कल्पनामिश्रितात्मिका: ॥४२॥ मिथ्याविकल्पोऽयमर्थेष्वेकात्मताग्रह इत्यर्थः। एतच्च पश्चात् प्रतिपादयिष्यते क्षणभङ्गादौ ॥ ४२ ॥ ..
. एवं तावत् समन्वयात्' इत्यस्य हेतोरसिद्धविरुद्धानैकान्तिकत्वं प्रतिपादितम्, अधुना 'कुटादिभेदवत्' इति दृष्टान्तस्य साध्यसाधनधर्मानन्वयत्वं प्रतिपादयन्नाह
... मृद्विकारादयो भेदा नैकजात्यन्वितास्तथा।
सिद्धा नैकनिमित्ताश्च मृत्पिण्डादेविभेदतः॥४३॥ आदिशब्देन कनकादिविकाराणां च ग्रहणम्। तथेति दूषणान्तरसमुच्चये, सादृश्ये वा। नैकजात्यन्विता इत्यनेन साधनधर्मवैकल्यं दर्शितम्। नैकनिमित्ताश्चेति। सिद्धा इति प्रकृतेन सम्बन्धः । अनेन साध्यधर्मानन्वयो दर्शितः । ननु चैकं मृत्पिण्डकनकादि कारणं तेषां सिद्धमेव, तथा. मृत्सुवर्णत्वादिजातिश्चैषामेकानुगामिनी दृष्टा, तत्कथमुभयवैकल्यम्? इत्याह-मृत्पिण्डादेविभेदत इति । न ह्येकोऽवयवी मृत्पिण्डादिरस्ति; एकदेशावृतौ सर्वावरण प्रसङ्गात् । नाप्येका जातिः; प्रतिव्यक्ति प्रतिभासभेदात् ॥ ४३ ॥ [G.39पुनरपि 'समन्वयात्' इत्यस्य हेतोः स्वतोऽनैकान्तिकत्वमिति प्रतिपादयन्नाह
चैतन्याद्यन्वितत्वेऽपि नैकपर्वत्वमिष्यते।।
पुरुषाणाममुख्यं चेत्, तदिहापि समं न किम् ॥४४॥ .. तथा हि-चेतनत्वभोक्तृत्वादिभिरपरिमितैर्धभैरन्विताः पुमांसोऽभीष्टाः, न च ते तथाविधैककारणपूर्वका भवद्भिरिष्यन्ते। अथापि स्यात्-चैतन्याद्यन्वितत्वं पुरुषाणां न १. कारणं-गा। २.मित्यादिनै०-गा।
३... भैषामंपार-गा।