________________
३४
तत्त्वसंग्रहे तेषां च प्रीत्यादीनां सविकल्पकत्वादनिश्चितं न किञ्चिद्रूपमस्तीति सर्वात्मनानुभवख्यातिः स्यात्। इयमेव हि निश्चयानां स्वार्थप्रतिपत्तिर्यत्तन्निश्चयनं नाम ॥ ३९॥
यच्चोक्तम्, "प्रग़दतापदैन्यादिकार्योपलम्भात् सुखाद्यनुगतत्वं शब्दादीनां सिद्धम्" (तत्त्व० १४) इति, तदनैकान्तिकमिति दर्शयन्नाह
प्रसादोद्वेगवरणान्येकस्मिन् पुंसि योगिनाम्।
जायन्ते, न च तद्रूपः पुमानभिमतः परैः ॥४०॥ [G.37] तथा हि-कापिलयोगिनां पुरुषं प्रकृतिविभक्तं भावयतां पुरुषमालम्ब्य स्वभ्यस्तयोगानां प्रसादो भवति, प्रीतिश्च; अजितयोगानां क्षिप्रतरमपश्यतामुद्वेगः; ये च प्रकृत्या जडमतयस्तेषां वरमुपजायते। न चासौ पुरुषस्तद्रूपस्त्रिगुणात्मकोऽभीष्टः परैः । तस्मात् 'प्रसादतापदैन्यादिकार्योपलब्धेः' इत्यनैकान्तिकमेतत् । सङ्कल्पात्तानि प्रीत्यादीनि भवन्ति, न पुरुषादिति चेत् ? एतच्छब्दादिष्वपि समानम्। ततश्च सङ्कल्पमात्रमभावित्वे बाह्याः सुखादयो न सिध्यन्ति; सङ्कल्पस्य संविद्रूपत्वात्। अत एव च बाह्यसुखाद्युपधानवशात् संवेदनस्य सातादिरूपत्वमित्येतदपि व्यभिचारि; अन्तरेणापि बाह्यविषयोपधानं पुरुषालम्बनेन प्रीत्यादीनामुत्पत्तिदर्शनात् । यच्चेष्टानिष्टविकल्पादनपेक्षितबाह्यविषयसन्निधानं सुखांदिसंवेदनं प्रसिद्धं तत्कथं परोपधानात् स्यात्, मनोऽपि त्रिगुणं तदुपधानाद्भवतीति चेत् ? न; तस्यापि "यदेव हि प्रकाशान्तर निरपेक्षं स्वयं सिद्धम्" इत्यादिना (तत्त्व० पृ० ३२) संविद्रूपत्वस्यं प्रतिपादितत्वात् । तस्मात् 'समन्वयात्' इत्यसिद्धो हेतुः ॥ ४०॥ . .. इदानीं हेतुसिद्धिमभ्युपगम्यानैकान्तिकत्वं प्रतिपादयन्नाह
सिद्धेऽपि त्रिगुणे व्यक्ते न प्रधानं प्रसिध्यति। यदि नाम व्यक्तं त्रिगुणात्मकं सिद्धम्, तथापि तस्य यत्तदभीष्टं कारणं प्रधानाख्यं तन्न सिध्यति । तथाभूतेन कारणेन क्वचिदपि हेतोरन्वयासिद्धेरिति भावः । तथा हि-त्रिगुणात्मकमेकं नित्यं व्यापि च तस्य कारणं साधयितुमिष्टम्। न चैवम्भूतेन कारणेन क्वचिद्धेतोः प्रतिबन्धः सिद्धः । नापि यदात्मकं कार्यमुपलभ्यते, कारणेनावश्यं तदात्मना भवितव्यम्; कार्यकारणयोर्भेदात् । तथा हि-हेतुमत्त्वानित्यत्वाव्यापितादिभिर्धर्मैः समन्विते व्यक्ताख्यं कार्यमिष्यते भवद्भिः, न च तत्कारणस्य ताद्रूप्यमिष्टम्, तस्मादनैकान्तिको हेतुः। धर्मविशेषविपरीतभावनाद्विरुद्धोऽपीति दर्शयन्नाह
एकं तत्कारणं नित्यं एको नित्यस्त्रिगुणात्मक: कारणभूतो धर्मः साधयितुमिष्टः, स च तथाभूतो न सिध्यति, किं तर्हि ? विपरीत इति भावः । कस्मात् ? इत्याह
नैकजात्यन्वितं हि तत् ॥४१॥ हिशब्दो हेतौ । 'यस्मात्तद्व्यक्ताख्यं कार्यं नैकया त्रिगुणात्मिकया स्वात्मभूतया जात्या समन्वितं सिद्धम्। किंतर्हि ? अनेकत्वानित्यत्वादिधर्मान्वितमेवोपलभ्यते। यदि हि व्यक्तमेकथा यथोक्तया जात्या समन्वितं भवेत्,तदा तत्कारणमपि यथोक्तधर्मविशिष्टं सिध्येत्। [G.38] १. तस्माद्-गा०।