________________
३३
प्रकृतिपरीक्षा तेन संवेदनस्य सातादिरूपत्वेऽपि न सुखादीनां संविद्रूपत्वं सिध्यति, अतो नैकान्तिकता मौलस्य हेतोः? इत्याशङ्कयाह
___एकत्रैव च शब्दादौ भावनाजातिभेदतः। . ' सङ्गादयः सम्भविनो लक्ष्यन्ते नियताः स्फुटम्॥३७॥
भावनाजातिभेदत इति । भावना:=अभ्यासाः, जातिस्तु-निजा प्रकृतिः, तयोर्भेदः = विशेषः। सङ्गादय इति । सङ्गः अभिलाषः। आदिशब्देन प्रीत्यादयः, द्वेषोद्वेगादयः, दैन्यावरणादयश्च त्रैगुण्यकार्यगणा गृह्यन्ते। नियता इति चैकाकाराः । तथा हि-भावनाविशेषान्मद्याङ्गनादिषु भावितशुभाशुभादिनिमित्तानां कामुकादीनाम्, जातिविशेषाच्च कुरङ्गकरभादीनां केषाञ्चिदेव प्रतिनियताः प्रीत्यादयः सम्भवन्ति, न सर्वेषाम्। एतच्च शब्दादीनां सुखादिरूपत्वे सति न युक्तम् ॥ ३७॥ कस्मात्? इत्याह - ___ एकवस्त्वनुपातित्वे चित्रा संवित् प्रसज्यते।
अदृष्टादिवशानो चेनं स्याद्वस्त्वनुयायिनी॥३८॥ . सर्वेषामेव हि तेषामभिन्नवस्तुविषयत्वान्नीलादिविषयसंवेदनवत् प्रत्येकं चित्रा [G.36] संवित् प्रसज्येत । स्यादेतद्-यद्यपि त्र्यात्मकं वस्तु, तथाप्यदृष्टादेर्धर्मादिलक्षणस्य सहकारिणो वशेन कस्यचित् किञ्चिदेव रूपं प्रतिभासते, न सर्वं सर्वस्येति। आदिशब्देन भावनाजातिभेदजिघृक्षादीनां ग्रहणम्। यद्येवं न स्याद्, वस्त्वनुयायिनी-वस्त्वालम्बना सा संविन प्राप्नोति; तदाकारशून्यत्वादिति भावः ॥ ३८॥ ..
तदेव तदाकारशून्यत्वं दर्शयन्नाह- . _ . त्र्याकारं वस्तुनो रूपमेकाकाराश्च तद्विदः ।
ताः कथं तत्र युज्यन्ते भाविन्यस्तद्विलक्षणाः॥ सत्त्वरजस्तमसां रूपम्। एकाकाराश्च तद्विदइति । तेषाम्=पुरुषाणाम्, विदः संवित्तयः प्रत्येकमभिष्वङ्गादिमात्रैकरूपनियमादेकाकाराः संवेद्यन्त इत्यर्थः । ता इति संविदः। तत्रेति शब्दादौ। भाविन्य इति पारमार्थिक्य इत्यर्थः । कस्मान्न युज्यन्ते? इत्याह-तद्विलक्षणा इति । तदालम्बनवस्तुविलक्षणा इत्वर्थः । प्रयोगः-यद्यदाकारसंवेदनं न भवति न तत्तद्विषयम्, यथा-चक्षुर्ज्ञानं न शब्दविषयम्। त्र्यात्मकवस्त्वाकारशून्याश्च यथोक्ताः संविद इति. व्यापकानुपलब्धिरतिप्रसङ्गापत्तिविपर्यये बाधकं प्रमाणम्।
स्यादेतद्-यथा प्रत्यक्षेण गृहीतेऽपि सर्वात्मना शब्दादिके वस्तुनि भावनादिवशेन क्वचिदेव क्षणिकत्वादौ निश्चयोत्पत्तिर्भवति, न सर्वत्र; तद्वददृष्टादिवशेनैकाकारा संविद् भविष्यतीति? तदेतदसम्यक्; न हि क्षणिकादिविकल्पस्यापि परमार्थतो वस्तुविषयत्वमस्माकमिष्टम्; सर्वविकल्पातीतत्वाद्वस्तुनः। पारम्पर्येण तु वस्तुनि प्रतिबन्धात्तथाविधवस्तुप्राप्तिहेतुतया तस्य प्रामाण्यम् । प्रीत्यादीनां तु परैर्वस्तुविषयत्वमेव परमार्थत इष्टम्; अन्यथा . हि निरालम्बनत्वे सति सुखाद्यात्मनां शब्दादीनामनुभवात् सुखाद्यनुभवख्यातिरित्येतत्र स्यात् । १. कामुकादीनामित्यर्थः।
२. विकल्पस्यादिः (ल्यास्पदं?)-गा०।