________________
३२
तत्त्वसंग्रहे विशिष्टरसवीर्यविपाकादिगुणोपेतं रूपं तदेव दध्यादिकं कार्यमुच्यते । तच्च क्षीरावस्थायामुपलम्भयोग्यस्यानुपलब्धेरसद्व्यवहारविषयः। यच्चान्यदस्ति शक्तिरूपं तत् तत्कार्यमेव न भवति । न चान्यस्य भावेऽन्यदस्ति; अतिप्रसङ्गात्। ननु चायुघृतम्, नड्वलोदकं पादरोगःइत्यन्यस्य सद्भावेऽन्यदुच्यमानं दृष्टमेव? इत्याह-अभक्त्येति । अभक्त्या अनुपचारेणेत्यर्थः । कारणे हि कार्योपचाराद् 'आयुर्घतम्' इत्युच्यते, न मुख्यतः।
यदि तु भवताप्युपचारात् कारणे कार्यमस्तीत्युच्यते, तदा न कश्चिद्विरोधः । मुख्यतस्तु विरोध उच्यते। एतदेव दृष्टान्तेनोपपादयन्नाह-न हीत्यादि। न हि यदेव सत्त्वरूपं तदेव दुःखमोहयोर्भवद्भिर्व्यवस्थाप्यते; तेषां परस्परं भिन्नलक्षणव्यवस्थानात् ॥ ३५ ॥ साम्प्रतम् 'भेदानामन्वयदर्शनात्' इत्यस्य हेतोरसिद्धत्वं प्रतिपादयन्नाह
सत्त्वाद्यनगतं व्यक्तं न सिद्धं नः कथञ्चन।
आन्तरत्वात् सुखादीनां व्यक्तत्वात् तत्स्वसंविदः ॥३६॥ शब्दादिलक्षणं व्यक्तम्-सुखादिरूपम्, नः अस्माकमसिद्धम्। कस्मात् ? सुखादीनामान्तरत्वात् संविद्रूपत्वात् । शब्दादीनां चाचेतनत्वात् तत् कथमेते सुखाद्यन्विता भवेयुः। प्रयोगः-ये संविद्रूपा न भवन्ति न ते सुखादिमयाः, यथा-परोपगतोऽचेतनः पुरुषः । संविद्रूपरहिताश्च शब्दादय इति व्यापकानुपलब्धिः । ..
स्यादेतत्-संविद्रूपत्वेन सुखादिमयत्वस्य यदा व्याप्तिः सिद्धा भवेत्तदो तन्निवर्तमानं शब्दादिषु सुखादिमयत्वं निवर्त्तयेद्. यावता सैव न सिद्धा, पुरुषस्यैव संविद्रूपत्वेनेष्टत्वात् ? [G.35] इत्यत आह-व्यक्तत्वात्तत्स्वसंविदइति। तत् संविद्रूपत्वं सुखादीनां सिद्धम्, कस्मात् ? सुखादीनां स्वसंविदः, स्वसंवेदनस्य व्यक्तत्वात्। अतिस्पष्टेयं सुखादीनां प्रीतितापादिरूपेण सत्यसति वा शब्दादिविषयसन्निधाने प्रकाशान्तरनिरपेक्षा स्वयमप्रकाशात्मलक्षणा स्वसंवित्तिः । यदेव हि प्रकाशान्तरनिरपेक्षं सातादिरूपतः स्वयं सिद्धम्, तच्चैतन्यम्, सुखम, संवेदनम्, ज्ञानमित्यादिभिः पर्यायैः कथ्यते। . . .
यदि च सुखादीनामन्येन संवेदनेनानुभवादनुभवख्यातिः स्यात्, तदा तेषां संवेदनमसातादिरूपं स्यात्, स्वयमतदात्मकत्वात्, यथा-योगिनोऽनुमातुश्च परकीयं सुखादि संवेदयतः । अन्यथा तेऽपि योग्यादयः साक्षात् सुखाद्यनुभाविन इवातुरादयः स्युः । योग्यादिवद्वाऽन्येषामप्यनुग्रहोपघातौ न स्याताम्; अविशेषात्। संवेदनस्य च सातादिरूपत्वेऽभ्युपगम्यमाने सिद्धं सुखादेः संविद्रूपत्वम्। इदमेव हि नः सुखं च, यत् सातमसातं च संवेदनम्। तस्मान्नानैकान्तिकता हेतोः, नाप्यसिद्धता; बाह्यर्थवादिनां सर्वेषामेव शब्दादिषु संविद्रूपरहितत्वस्य सिद्धत्वात्, अन्यथा विज्ञानवादिमतमेवाङ्गीकृतं स्यात्, तच्चेष्टमेव । नापि विरुद्धता; हेतोः सपक्षे भावात् ॥३६॥
स्यादेतत्-यथा बहिरवस्थितनीलादिसन्निधानादनीलादिरूपमपि संवेदनं नीलादिरूपनिर्भासं भवति, तथा बाह्यसुखाद्युपधानवशादसातादिरूपमपि सातादिरूपमिव लक्ष्यते, १. पा०, गा० पुस्तकयो स्ति।
___२. तदिति पा०, गा० पुस्तकयोनास्ति । ३-३. सुखप्रीतितापादिरूपेण-पा०, गा०।