________________
३१
प्रकृतिपरीक्षा समवायो वा; तयोरपि निषेत्स्यमानत्वात्, परमतेन च तयोर्नित्यत्वात् । नित्यस्य च जन्मानुपपत्तेः । यथोक्तम्
"सत्ता स्वकारणाश्लेषकरणात् कारणं किल। ..सा सत्ता स च सम्बन्धो नित्यौ कार्यमथेह किम्॥"
__(प्र० वा० २.११५) इति। स एवमात्मक उत्पादो नासता तादात्म्येन सम्बध्यते; सदसतोर्विरोधात्। न ह्यसद्भवति, नापि सता पूर्वभाविना सम्बध्यते, तस्य पूर्वसत्त्वात्।
कथमिदानीमसत्कार्यवादिनो यूयम् ? इत्याह-कल्पिकयेत्यादि। कल्पिकया धिया कर्तृभूतया कारणभूतया वा, केवलमसता का सम्बध्यते, सम्बन्धमुपनीयत इत्यर्थः । न ह्यसन्नाम किञ्चिदस्ति यदुत्पत्तिमाविशेत्; किन्तु काल्पनिकोऽयं व्यवहारो यदसदुत्पद्यत इति यावत् ॥ ३२॥ किं पुनरिह कल्पनाया बीजम्, येनायमेवं व्यवहार इष्यते? इत्याह
यदिदं वस्तुनो रूपमेकानन्तरमीक्ष्यते।
प्रागासीन्नेति तद् बीजं प्राग्भूते त्विदमस्ति न ॥३३॥ यदेतदेकस्य प्रतिनियतस्य कस्यचित् पदार्थस्यानन्तरमदृष्टपूर्वं वस्तुरूपमुपलभ्यते, तन्मध्यावस्थातः प्राङ्नासीत्; उपलब्धिक्षणप्राप्तस्यानुपलब्धेः । तस्मादिदम् 'प्रागसत्समुत्पद्यते' इत्यस्याः कल्पनाया बीजम्। कस्मात् ? इत्याह-प्रारभूत इत्यादि। मध्यावस्थातः प्राक्, मध्यावस्थातद्भूते विद्यमाने सति वस्तुरूपे, नास्तीदं कल्पनानिबन्धनमुत्पद्यत इति। तथा हि-'उत्पद्यते' इत्यनेन मध्यावस्थाभाव्येव प्रतिनियतं.स्वरूपमुच्यते। यदि च तस्य प्रागपि भावः स्यात्तदा तस्य मध्यावस्थाभाव्येवेति तदेतन्नियतं स्वरूपम्, तस्य हानिः स्यात्; आकाशवत् सर्वदावस्थितस्य पूर्वापरमध्यावस्थाऽभावात्। ततश्च सर्वदा सर्वमुत्पद्यते' इत्येवं व्यपदिश्येत; विशेषाभावात् ॥ ३३॥ .
पुनरपि सत्कार्यवादं प्रकारान्तरेण दूषयन्नाह. . . क्षीरादिषु च दध्यादि शक्तिरूपेण यत्र सत्'।
का शक्तिस्तत्र दध्यादि यदि दृश्येत दुग्धवत् ॥३४॥ [G.34] 'कारणे कार्यमस्ति' इति यदुच्यते भवद्भिः, तत्र कोऽर्थोऽभिप्रेतः ? किं व्यक्तिरूपेण? तन्न; क्षीराद्यावस्थायामपि दध्यादीनां पश्चाद्वदुपलब्धिप्रसङ्गात्। अथ शक्तिरूपेण? तथापि यत्तच्छक्तिरूपं दध्यादेः कार्यरूपादुंपलब्धिक्षणप्राप्तादन्यत्', आहोस्वित्तदेव? यदि तदेव तदा पूर्ववदुपलब्धिप्रसङ्गः ॥ ३४॥
अन्यच्चेत्, कथमन्यस्य भावेऽभक्त्यान्यदुच्यते। . न हि सत्त्वस्य सद्भावः सद्भावो दुःखमोहयोः ॥ ३५॥
अथान्यदिति पक्षः, तदा 'कारणात्मनि कार्यमस्ति' इति पक्षस्त्यक्तो भवेत्; कार्यव्यतिरिक्तस्य शक्त्याख्यस्य पदार्थान्तरस्य भावाभ्युपगमात्। तथा हि-यदेवाविर्भूतं १-१. यन्मतम्-पा०, गा०। . . २. ०लब्धिलक्षण- पा० गा० ।