________________
३०
तत्त्वसंग्रहे व्यपदेशो वस्तूनां रूपं स्वभावो भवति, येन तन्निवर्तमानं तथाविधं वस्तु निवर्तयेत् । [G.32] नामग्रहणमुपलक्षणम्, विकल्पोऽपि तत्संसृष्टो गृह्यते। रूपग्रहणं चोपलक्षणम्, कारणमपि गृह्यते। कारणमपि वस्तूनां नाम न भवत्येव; तदन्तरेणापि वस्तुसम्भवात्। अत्र कारणमाहविकल्प इत्यादि। यत् यस्मात्, नामसंसर्गभाजो विकल्पा वाचकाच शब्दा विश्वकल्पा:= नानाप्रकाराः, अभेदिनि निरंशैकस्वभाववस्तुनि यथाभ्यास प्रवर्त्तन्ते। तथा हिं-एक एव शब्दादि वो नित्यादिरूपेण भिन्नसमयस्थायिभिः प्रवादिभिर्विकल्प्यते व्यपदिश्यते च। तेषां च शब्दविकल्पानां तादात्म्ये तद्विषयत्वे वा वस्तुनश्चित्रत्वं प्राप्नोति । वस्तुस्वरूपवदेव वा शब्दविकल्पानामेकरूपत्वप्रसङ्गः। न ह्येकं चित्रमिति युक्तम्; अतिप्रसङ्गात्। तस्माच्छक्तिप्रतिनियमात् किञ्चिदेवासत् क्रियते न सर्वमित्यतः 'नैरूप्याद्' इत्यनैकान्तिकोऽपि हेतुः।
अत एव उपादानग्रहणात्' इत्यादिकस्य हेतुचतुष्टयस्यानैकान्तिकत्वम् । तथा हियदि कार्यसत्ताकृतमेव प्रतिनियतोपादानग्रहणं क्वचित् सिद्धं स्यात्तदैतत् स्यात्, यावता कारणशक्तिनियमकृतमपि नियतोपादानग्रहणं युज्यत एव । कारणशक्तिप्रतिनियमादेव च न सर्वस्य सर्वस्मात् सम्भवः; सर्वस्य सर्वार्थक्रियाकारित्वस्वभावासम्भवात् । यत्पनुरुक्तम्'अकार्यातिशयं यत्तु' इत्यादि; तदप्यभिप्रायापरिज्ञानादुक्तम् । न ह्यस्माभिः 'अभावः क्रियते' इत्यभिधीयते, येन विकृतौ सत्यां तस्य स्वभावहानिप्रसङ्गः स्यात्, किन्तु वस्त्वेव क्रियते' इति पूर्वं प्रतिपादितम्। तच्च वस्तु उपलब्धिक्षणप्राप्तस्यानुपलब्धेर्निष्पन्नस्य च कार्यत्वानुपपत्तेः प्रागुत्पादादसदित्युच्यते । यस्य च कारणस्य सन्निधानमात्रेण तत्तथाभूतमुदेति, तेन तत्क्रियत इति व्यपदिश्यते; न तु व्यापारसमावेशात् केनचित्किञ्चित् क्रियते, निर्व्यापारत्वात् सर्वधर्माणाम्। नाप्यसनाम किञ्चिदस्ति यद्विक्रियते, न वा वस्तुस्वभावः; प्रतिषेधमात्रलक्षणत्वादसत्त्वस्य।
अपि च-यद्यकार्यातिशयत्वादसन्न क्रियते-इत्यभिधीयते, सदपि च स्वभावनिष्पत्तेरकार्यातिशयमेवेति तत्कथं क्रियते! तस्मात् 'शक्तस्य शक्यकरणात्' इत्येषोऽनैकान्तिकः; असत्कार्यवादे च कारणभावस्य युज्यमानत्वात् 'कारणभावात्' इत्ययमप्यनैकान्तिकः। यद्वा-पूर्वं सतः कार्यत्वासम्भवंस्य प्रतिपादितत्वात्, असत्कार्यवाद एव चोपादानग्रहादिनियमस्य युज्यमानत्वात्। उपादानग्रहणात्' इत्यादेर्हेतुचतुष्टयस्य विरुद्धता; साध्यविपर्ययसाधनात् ॥३१॥
ननु यदि असदेवोत्पद्यते' इति भवतां मतम्, तत्कथं सूत्रे सदसतोरुत्पादः प्रतिषिद्धः, यथोक्तम्- "अनुत्पन्नाः महामते ! सर्वधर्माः; सदसतोरनुत्पन्नत्वात्" (ल० सू०, पृ० ८०) इति? अत्राह
उत्पादो वस्तुभावस्तु सोऽसता न सता तथा।।
सम्बध्यते कल्पिकया केवलं त्वसता धिया॥३२॥ • [G.33] तुशब्दोऽवधारणार्थः। वस्तूनांपूर्वापरकोटिशून्यक्षणमात्रावस्थायी स्वभाव एवोत्पाद
इत्युच्यते। भेदान्तरप्रतिक्षेपेण तन्मात्रजिज्ञासायाम् न तु वैभाषिकपरिकल्पिता' जाति: संस्कृतलक्षणम्; तस्याः प्रतिषेत्स्यमानत्वात् । नापि वैशेषिकपरिकल्पितः-सत्तासमवायः स्वकारण१. विकल्पिता-पा०, गा०।