________________
ईश्वरपरीक्षा
विपक्षे बाधकप्रमाणाभावात्, सामान्येन सिद्धसाध्यता, विशेषेण दृष्टान्तस्य साध्यविकल योजनीयम् ॥ ८५ ॥
[G.54] एवं विस्तरेणेश्वरसाधकानि प्रमाणानि निराकृत्य, साम्प्रतं व्याप्तिदोषोद्भावनमुखेन तद्बाधकं प्रमाणं,स्वपक्षसिद्ध्यर्थमुपदर्शयितुमाह
४९
१. अनुमानविरोधश्च व्याप्तेः सर्वत्र साधने ।
न विरुद्धेन धर्मेण व्याप्तिर्हेतोः प्रकल्पते ॥ ८६ ॥
सर्वत्र यथोक्ते साधने साध्येन या हेतोर्व्याप्तिस्तस्या अनुमानविरोधो वक्ष्यमाणः । अथ प्रतिज्ञायाः कस्मादनुमानविरोधो नोद्भाव्यते ? यदि प्रतिज्ञा साधनाङ्गं स्यात्, तदा तद्दोषोद्भावनं स्यात्; यावता साक्षात् पारम्पर्येण वाऽसौ न साध्यसिद्धेरङ्गभावं प्रतिपद्यते, ततश्च साधनदोषाभिधाने प्रस्तुते यत् प्रतिज्ञादोषोद्भावनं तद् दोषोद्भावनं वादिनो निग्रहस्थानं स्यात्, तस्मान्न साधनप्रयोगेषु प्रतिज्ञादोषो वाच्यः । यत्र तु क्वचित् प्रतिज्ञाविरोध उद्भाव्यते, तत्र तन्मुखेन व्याप्तेरेव तद्विघटनं क्रियत इति प्रहीतव्यम् । यद्वा - साधनप्रयोगादन्यत्र तद् द्रष्टव्यंम् ।
अथ व्याप्तिकालेऽपि कथमनुमानविरोधो भवति ? इत्याह-न विरुद्धेनेत्यादि । विरुद्धेनेति = प्रमाणव्याहतेन । तस्यासम्भवादेव न युक्ता व्याप्तिः, न ह्यसता व्याप्तिरवकल्प्यत इति यावत् ॥ ८६ ॥
किं तदनुमानं येन व्याप्तिर्बाध्यते ? इत्याह
नेश्वरो जन्मिनां हेतुरुत्पत्तिविकलत्वतः । गगनाम्भोजवत् सर्वमन्यथा युगपद् भवेत् ॥ ८७ ॥
यंदुत्पत्तिविकलं न तत्कस्यचित् कारणम्, यथा गगनाम्भोजम् । उत्पत्तिविकलश्च ईश्वर इति व्यापकविरुद्धोपलब्धिः । प्रसङ्गसाधनं चेदम् तेनाश्रयासिद्धता न चोदनीया । सर्वमन्यथा युगपद्भवेदिति । अप्रतिबद्धसामर्थ्यकारणत्वादेककालाभिमतकार्यग्रामवत् सर्वं युगपद्भवेदित्यर्थः । एतदत्र बाधकं प्रमाणम् ।
अथ वा- - अर्थकथनमात्रमेतत् । एवं तु प्रसङ्गसाधनं कर्त्तव्यम् - यदविकलकारणं तद्भवत्येव, यथा— अन्त्यावस्थाप्राप्तायां सामग्ग्रामविकलकारणो च सर्वमीश्वरंहेतुकं जगदिति युगपद्भवेत् ।
भवन्नङ्कुरः । अविकलकारणं
स्यादेतद्-नेश्वर एव केवलं कारणम्, अपि तु धर्मादिसहकारिकारणान्तरमपेक्ष्य करोति, निमित्तकारणत्वादीश्वरस्य; तेन धर्मादेः कारणान्तरस्य वैकल्यादविकलकारणत्वमसिद्धमिति ? तदेतदसम्यक् ; यदि हि तस्य सहकारिभिः कश्चिदुपकारः कर्त्तव्यो भवेत्, तदा तस्य सहकारिणि व्यपेक्षा, यावता नित्यत्वात् परैरनाधेयातिशयस्य न किञ्चित् तस्य सहकारिभ्यः प्राप्तव्यमस्तीति किमिति ताँस्तथाभूताननुपकारिणः सहकारिणोऽपेक्षेत ! [G.55] किञ्च - येऽपि ते सहकारिणस्तेऽपि सर्व एवेश्वरस्यायत्तजन्मतया नित्यं समवहिता'.
१. ० पलब्धे :- जे० ।
२. समवहता- गा ।