________________
तत्त्वसंग्रहे कोऽपरस्तदुपलम्भोऽभिव्यक्त्याख्योऽस्ति, यः साधनैः क्रियेत ! स्यादेतत्-न बुद्धिस्वभावा तद्विषयसंवित्तिः, किं तर्हि ? मन:स्वभावेति? तदसम्यक्; बुद्धिरुपलब्धिरध्यवसायो मनः संवित्तिरित्यादीनामनन्तरत्वात्। एतच्च पश्चान्निवेदयिष्यते। नापि तद्विषयोपलम्भावरणक्षयलक्षणाभिव्यक्तिः; अत एव कारणद्वयात्। तथा हि-यत्तदुपलम्भावरणं तस्य नि वान्न क्षयः सम्भवति । नापि तिरोभावलक्षणः क्षयो युक्तः; अत्यक्तपूर्वरूपस्य तिरोभावासम्भवात्। द्वितीयस्य चोपलम्भस्यासम्भवान्नोपलम्भावरणमस्,ि न पुसत आवरणं युक्तम्; वस्तुसद्विषयत्वात्तस्य। तस्मान्न तत्क्षयो युक्तः।
___ अथ वा-नित्यत्वादिति तद्विषयायाः समवित्तेनित्यत्वान्नावरणं सम्भवति, 'तदसम्भवान्न क्षयो युक्त इत्यर्थः । न चाप्यावरणक्षयः केनचित् क्रियते; तस्य निःस्वभावत्वात्। न केवलं सत्कार्यवादपक्षे साधनप्रयोगवैयर्थ्यम्, बन्धमोक्षभावप्रसङ्गः सर्वलोकव्यवहारोच्छेदप्रसङ्गश्चानिवार्यः । तथा हि-प्रधानपुरुषयोः कैवल्योपलम्भलक्षणस्य तत्त्वज्ञानस्योत्पत्तौ सत्यां मोक्षो भवद्भिरिष्यते, तच्च तत्त्वज्ञानं सर्वदावस्थितमेवेति मुक्ताः सर्व एव देहिनः स्युः, अतो न बन्धः । मिथ्याज्ञानवशाच्च बन्ध इष्यते, तस्य च सर्वदावस्थितत्वेन सर्वदा सर्वेषां [G.30] बद्धत्वात् कुतो मोक्षः! लोकश्च हिताहितप्राप्तिपरिहारार्थं प्रवर्तते। सत्कार्य-वादपक्षे च न किञ्चिदप्राप्यमहेयं वाऽस्तीति निरीहमेव जगत् स्यात्, अन्ततस्सर्वव्यवहारो-च्छेदप्रसङ्गः ॥ २७॥ एवं तावत् सत्कार्यवादं निराकृत्यअसत्कार्यवादपक्षभाविनो दोषान् परिहर्तुमाह
त्रैगुण्यस्याविभेदेऽपि न सर्वं सर्वकारकम्।
यद्वत, तद्वदसत्त्वेऽपि न सर्व सर्वकारकम् ॥२८॥ सत्कार्यनिषेधादेव सामर्थ्यादसत्कार्यमिति सिद्धमेव; सदसतोरन्योन्यपरिहारस्थितलक्षणत्वेन प्रकारान्तरासम्भवात्। तथापि परोपन्यस्तस्य दूषणस्य दूषणाभासताप्रतिपादनायोच्यते । तत्र यत्तावदुक्तम्-"कर्तुं तनैव शक्येत नैरूप्यात्" (तत्त्व० ८) इति, तदसिद्धम्; वस्तुस्वभावस्यैव क्रियमाणत्वाभ्युपगमात्। तस्य च वस्तुस्वभावस्य नीरूपत्वासिद्धेः। प्रागुत्पत्तेस्तन्निःस्वभावमेवेति चेत्? न; तस्यैव निःस्वभावत्वायोगात्। न हि स्वभाव एव निःस्वभावो युक्तः; वस्तुस्वभावप्रतिषेधलक्षणत्वात्रि:स्वभावत्वस्य। न चाप्युत्पादात् प्राक् तदस्ति क्रियमाणं वस्तु; येन तदेव निःस्वभाव सिध्येत् । अथ वस्तुविरहलक्षणमेव नीरूपं धर्मिणं पक्षीकृत्य 'नैरूप्यात्' इति हेतुः क्रियते? तदा सिद्धसाध्यता। न हि वस्तुविरहः केनचित् क्रियमाणतयाऽभ्युपगतः।
अपि च-नैकान्तिकोऽपि हेतुः, विपक्षे बाधकप्रमाणानुपदर्शनात्; यत: कारणशक्तिप्रतिनियमात् किञ्चिदेवासत् क्रियते यस्योत्पादकं कारणमस्ति, यस्य तु वियदब्जादे स्ति कारणं तन्न क्रियत इत्यनेकान्त एव। न हि सर्वं सर्वस्य कारणमिष्टम् । नापि 'यद्यदसत् तत्तत्क्रियत एव' इति व्याप्तिरिष्टा, किं तर्हि ? 'यत्क्रियते तत् प्रागुत्पत्तेरसदेव' इति । स्यादेतत्तुल्येऽप्यसत्कारित्वे कारणानां किमिति सर्वं सर्वस्यासत: कारणं न भवतीति? तदेतद्भवतोऽपि १. आवरणासम्भवादित्यर्थः।
२. अत:-जै०।