________________
प्रकृतिपरीक्षा
२७ इत्यङ्गीक्रियते? एव तर्हि असदकरणात्' इत्यादेर्हेतुगणस्य समस्तस्यैवानैकान्तिकता प्राप्नोति; निश्चयवदसतोऽप्युत्पत्त्यविरोधात्। ततश्च यथा निश्चयस्यासतोऽपि करणं तन्निष्पत्तये च यथा विशिष्टसाधनपरिग्रहः, यथा च तस्य न सर्वस्मात् साधनाभासादेः सम्भवः, यता चासावसन्नपि शक्तैर्हेतुभिः क्रियते, तत्र च यथा हेतूनां कारणभावोऽस्ति, तथान्यत्रापि भविष्यति ॥ २५ ॥
अव्यक्तो व्यक्तिभाक् तेभ्यः इति चेद्वयक्तिरस्य का?
न रूपातिशयोत्पत्तिरविभागादसङ्गतेः ॥२६॥ अथापि स्याद्-यद्यपि प्राक्साधनप्रयोगात् सन्नेव निश्चयः, तथापि न साधनवैयर्थ्यम्; यतः प्रागनभिव्यक्तोऽसौ पश्चात्तेभ्यः साधनेभ्योऽभिव्यक्तिमासादयति, तस्मादभिव्यक्त्यर्थं साधनानि व्याप्रियन्त इति नानर्थक्यमेषामिति? तदेतदयुक्तम्; व्यक्तेरसिद्धत्वात्।
तथा हि-व्यक्तिः स्वभावतिशयोत्पत्तिर्वा भवेत् ? यद्वा तद्विषयं ज्ञानम्? तदुपलम्भावरणापगमो वा? तत्र न तावत् स्वभावातिशयोत्पत्तिः। तथा हि-असौ स्वभावातिशयो निश्चस्वरूपादपृथग्भूतो वा? पृथग्भूतो वा? यद्यपृथग्भूतः, तदा तस्य निश्चयादविभागादपृथक्त्वानिश्चयस्वरूपवत् सर्वदैवावस्थिते!त्पत्तिर्युक्ता। अथ पृथग्भूतः? एवमपि तस्यासाविति सम्बन्धानुपपत्तिः । तथा हि-आधाराधेयलक्षणो वा सम्बन्धो भवेत् ? जन्यजनकभावलक्षणो वा? न तावदाद्यः; परस्परानुपकार्योपकारकयोस्तदसम्भवात्। उपकारे वा तस्याप्युपकारस्य व्यतिरेकित्वे सम्बन्धासिद्धरनवस्थाप्रसङ्गात्। अव्यतिरेकित्वे च साधनप्रयोगवैयर्थ्यम्; निश्चयादेवोपकाराव्यतिरिक्तस्यातिशयस्योत्पत्तेः । अमूर्त्तत्वाच्चातिशयस्याधःप्रसर्पणासम्भवान्न तस्य कश्चिदाधारो युक्तः; अधोगतिप्रतिबन्धकत्वेनाधारस्य व्यवस्थानात्। नापि जन्यजनकभावलक्षणः; सर्वदैव निश्चयाख्यस्य कारणस्य सन्निहितत्वान्नित्यमतिशयोत्पत्तिप्रसङ्गात् । न च साधनप्रयोगापेक्षया निश्चयस्यातिशयोत्पादकत्वं युक्तम्; अनुपकारिण्यपेक्षानुपपत्तेः। उपकारित्वे वा पूर्ववद्दोषः, अनवस्था च। [G.29] अपि च-योऽसावतिशयः पृथग्भूतः क्रियते स किमसन् ? आहोस्वित् सन् ? इति विकल्पद्वयमत्राप्यवतरत्येव। तत्रासत्त्वे पूर्ववत् साधनानामनैकान्तिकतापत्तिः। सत्त्वे च साधनवैयर्थम्। तत्राप्यभिव्यक्ताविष्यमाणायां केयमभिव्यक्तिः?-इत्यनवस्थाप्रसङ्गो दुर्निरिः । तस्माद्व्यतिरेकपक्षेऽप्यसङ्गतेरसम्बन्धान रूपातिशयोत्पत्तियुज्यते ॥ २६॥ .
. न तद्विषयसंवित्तिर्नोपलम्भावृतिक्षयः।
नित्यत्वादुपलम्भस्य द्वितीयस्याप्यसम्भवात् ॥२७॥ नापि तद्विषयज्ञानोत्पत्तिलक्षणभिव्यक्तिर्युक्ता; नित्यत्वात्तद्विषयायाः संवित्तेः । तथा हि-यासौ तद्विषया संवित्तिः सा भवतः सत्कार्यवादिनो मतेन नित्यैवेति किं तस्या उत्पाद्यं स्यात् ! द्वितीयस्योपलम्भस्यासम्भवाच्च न तद्विषयज्ञानोत्पत्तिलक्षणाभिव्यक्तिर्युक्ता। 'अपि' शब्दः समुच्चये, भिन्नक्रमश्च 'असम्भवात्' इत्यस्यानन्तरं द्रष्टव्यः । तेनैतदुक्तं भवति–एकैव भवतां मतेन संवित्, 'आसर्गप्रलयादेका बुद्धिः' इति सिद्धान्तात्, सैव च निश्चयः । तत्र १. निश्चयस्य स्वभावातिशय इत्यर्थः। २. गा० संस्करणसम्पादकस्तु 'उत्पाद्यत्वम्' इत्यचितं मन्यते।