SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ २६ चनाह तत्त्वसंग्रहे यथोक्तया नीत्या साध्यस्याभावादुपादानपरिग्रहो न प्राप्नोति; तत्साध्यफलवाञ्छयैव [G.27] तेषां प्रेक्षावद्भिः परिग्रहात् । नियतादेव क्षीरोदेर्दध्यादीनां जन्मेत्येतदपि न प्राप्नोति; साध्यस्यासम्भवादेव। एतच्च 'सर्वसम्भवाभावात्' इत्येतस्य समर्थनम्। तथा हि-सर्वस्मात् सम्भवाभाव एव नियताजन्मेत्युच्यते, तच्च सत्कार्यवादपक्षे साध्याभावान युज्यते। .... तथा शक्तस्येति, शक्यकरणमित्येतदपि द्वयं न युज्यते; साध्यस्याभावादेव। यदि हि केनचित् किञ्चिदभिनिर्व]त तदा निर्वर्तकस्य शक्तिर्व्यवस्थाप्येत, निवर्त्यस्य च करणं सिध्येत्, नान्यथा। तदर्शयति- न च शक्तिर्न च क्रियेति ॥२१॥ कारणभावोऽपि पदार्थानां न युक्तः, 'साध्याभावादेव। तद्दर्शयति सर्वात्मना च निष्पत्तेर्न कार्यमिह किञ्चन। कारणव्यपदेशोऽपि तस्मान्नैवोपपद्यते ॥२२॥. ' एतच्च कारणभावात्' इत्येतस्य हेतोः समर्थनम्। न चैवं भवति, तस्मान्न सत्कार्यमिति सर्वहेतुषु प्रसङ्गप्रत्ययो योज्यः ॥ २२॥ भूयः प्रकारान्तरेण सत्कार्यवादं दूषयन्नाह सर्व च साधनं वृत्तं विपर्यासनिवर्तकम्। निश्चयोत्पादकं चेदं न तथा युक्तिसङ्गतम् ॥२३॥ वृत्तमिति प्रवृत्तम्। विपर्यासग्रहणेन संशयोऽपि गृह्यते, तस्योभयांशाव लम्बित्वेनारोपकत्वसम्भात्। सर्वमेव हि साधनं स्वविषये प्रवृत्तं द्वयं करोति-प्रमेयार्थविषये प्रवृत्तौ संशयविपर्यासौ निवर्तयति, निश्चयं च तद्विषयमुत्पादयति। तदेतत् सत्कार्यवादे युक्त्या न सङ्गच्छते॥२३॥ कथम्? इत्याह न सन्देहविपर्यासौ निवत्या सर्वदा स्थितेः। नापि निश्चयजन्मास्ति तत एव वृथाखिलम्॥२४॥ तथा हि-सन्देहविपर्यासौ भवतां मतेन चैतन्यात्मकौ वा स्याताम्, बुद्धिमनःस्वभावौ वा। पक्षद्वयेऽपि न तयोर्निवृत्तिः सम्भवति; चैतन्यबुद्धिमनसां नित्यत्वेन तयोरपि नित्यत्वात् । नापि निश्चयोत्पत्तिः साधनात् सम्भवति; तत एव सर्वदा स्थितेः कारणात्। तस्माद्यदेतत्साधनमुक्तं भवता तदखिलं सर्वमेव वृथा। एतेन स्ववचनविरोध उद्भावितो भवति। तथा [G.28] हि-निश्चयोत्पादनाय साधनं ब्रुवता निश्चयस्यासत उत्पत्तिरङ्गीकृता भवेत्, 'सत्कार्यम्' इति च प्रतिज्ञया सा निषिद्धेति स्ववचनव्याघातः ॥ २४ ॥ अथापि निश्चयोऽभूतस्समुत्पद्येत साधनात्। ननु तेनैव सर्वेऽमी भवेयुर्व्यभिचारिणः ॥२५॥ अथ मा भूत् साधनप्रयोगवैयर्थ्यमिति निश्चयोऽभूतोऽसन्नेव साधनादुत्पद्येत १. निष्पादनमित्यर्थः। २. साध्यभावादेव-पा०, गा०। ३. प्रसङ्गविपर्यय इत्यर्थः। ४. ०वलम्बत्वेन-पा०, गा०। ५. साधनादुत्पद्यते-गा।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy