________________
प्रकृतिपरीक्षा अभिमतः= पदार्थ इति शेषः । तेनायमर्थो भवति-मूलप्रकृत्यादिर्बीजदुग्घादिश्चाभिमतः पदार्थो विवक्षितस्य महदादेर्दध्यादेश्च न हेतुः, जनकव्यवहारयोग्यो न प्राप्नोतीत्यर्थः । कस्मात् ? असाध्यत्वात्। नास्य साध्यमस्तीत्यसाध्यः, तद्भावस्तत्त्वम्। एतच्चानन्तरोक्तात् कार्यत्वप्रतिषेधात् सिद्धम्। अत एव 'अतः' इत्युक्तम्। परात्मवदिति अन्यस्वभाववत्। अकारणाभिमतपदार्थस्वभाववदित्यर्थः । अकारणाभिमतश्च पदार्थश्चैतन्यम्;"न प्रकृतिर्न विकृतिः पुरुषः" (सां० का० ३) इति वचनात्। प्रयोगः-यदविद्यमानसाध्यं न तत्कारणम्, यथा चैतन्यम्। अविद्यमानसाध्यश्चाभिमतः पदार्थ इति व्यापका- [G.26] नुपलब्धिः। एतच्च द्वयमपि प्रसङ्गसाधनम्, अतो नोभयसिद्धोदाहरणेन किञ्चित् ।
यस्तु मन्यते साङ्ख्यः- "पुरुषस्यापि प्रतिबिम्बोदयन्यायेन भोगं प्रति कर्तृत्वमस्ति" इति, तं प्रत्येवं व्याख्या-परश्चासावात्मा च, मुक्त इत्यर्थः । तस्य हि मुक्तत्वाद्भोगं प्रत्यपि कर्तृत्वं नास्तीति नोदाहरणासिद्धिः ॥ १८॥ . अथेत्यादिना परमतेन हेत्वोरसिद्धिमाशङ्कते
अथास्त्यतिशयः कश्चिदभिव्यक्त्यादिलक्षणः।
यं हेतवः प्रकुर्वाणां न यान्ति वचनीयताम्? ॥१९॥ तत्र यदि प्रथमो हेतुः 'सर्वत्मनाऽभिव्यक्त्यादिरूपेणापि सत्त्वात्' इति सविशेषणः क्रियते, तदा न सिध्यति। न ह्यस्माभिरभिव्यक्त्यादिरूपेणापि सत्त्वमिष्यते कार्यस्य, किं तर्हि ? शक्तिरूपेण । अथ सामान्येन निर्विशेषणः, तदाऽनैकान्तिकः; यस्मादभिव्यक्त्यादिलक्षणस्यातिशयस्योत्पद्यमानत्वात् न.सर्वस्य कार्यत्वप्रसङ्गो भविष्यति। अत एव द्वितीयोऽपि हेतुरसिद्धः; साध्यस्य विद्यमानत्वात्। अभिव्यक्त्यादिलक्षण इति। आदिशब्देनोद्रेकाद्यवस्थाविशेषपरिग्रहः । यमिति अतिशयम्। वचनीयतामितिवाच्यताम्।'नाभिमतो हेतुरसाध्य- . त्वात्' इत्यादिदोषो न भवतीति यावत् ॥ १९ ॥
प्रागासीदित्यादिना प्रतिविधत्ते. . . प्रागासीद्यद्यसावेवं न किञ्चिद्दत्तमुत्तरम्।
नो चेत्सोऽसत्कथं तेभ्यः प्रादुर्भावं समश्नुते॥२०॥ तत्र विकल्पद्वयम्-कदाचिदसावतिशयोऽभिव्यक्त्याद्यवस्थातः प्राक् प्रकृत्यवस्थायामप्यासीद्वा? न वा? यद्यासीत्, तदा भवद्भिर्द्वयोरपि हेत्वोर्न किञ्चिदसिद्धत्वादिकमुक्तमुत्तरम्। नो चेत् प्रागासीत्, एवमपि सोऽतिशयः कथं तेभ्यो हेतुभ्यः प्रादुर्भावमश्रुवीत! असदकरणात्' इति भवतां न्यायान्न युक्तमेतदित्यभिप्रायः ॥ २० ॥
एवं तावत् 'सदकरणात्' इत्ययं हेतुः समर्थितः । साम्प्रतम् ‘उपादानपरिग्रहात्' इत्यादिहेतुचतुष्टयसमर्थनार्थमाह
नातः साध्यं समस्तीति नोपादानपरिग्रहः।
नियतादपि नो जन्म न च शक्तिर्न च क्रिया॥२१॥ १. भवतीत्यर्थः।
२. असाध्यत्वमित्यर्थः। ३. परमते-पा०, गा०।
४. असदकारणात्-गा०।