________________
तत्त्वसंग्रहे
एतच्च' स्पष्टमेव दूषणमिति कृत्वा तदुपेक्ष्य यश्चायमसत्कार्यवादे दोषः परैरुक्तः, तं पश्चात्प्रतिविधास्यामः - इति मन्यमानस्तुल्यदोषापादनव्याजेन सत्कार्यवादमेव तावद् दूषयतेतदत्रेत्यदि। सुधिय इति सौगताः । ते प्राहुः - येयम्' असदकरणात्' इत्यादिना पञ्चधा चोदना कृता, सा सत्त्वेऽपि = सत्कार्यवादपक्षेऽपि तुल्या । तथा हि शक्यमिदमित्थमभिधातुम्"न सदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥" इति । न सत्कार्यमिति व्यवहितेन सम्बन्धः । कस्मात् ? सदकरणात्, उपादानग्रहणादित्यादेर्हेतोः। यश्चोभयोर्दोषो न तमेकश्चोदयेदिति भावः ।
ननु च कथमियं समता भवति, यावता तत्र 'असदकरणात्' इत्येवं चोदना, 'सदकरणात्' इति ? न; अभिप्रायापरिज्ञानात् । अकरणनियतोपादानपरिग्रहादिमात्रविवक्षया हीदमुक्तम्; सत्कार्यवादेऽप्यकरणादीनां तुल्यत्वात् । तस्यां च चोदनायां यदुत्तरं भवतां सत्कार्यवादिनाम्, तदसत्कार्यवादिनां सुधियां बौद्धानां भविष्यति ॥ १६ ॥ --
२४
[G.25] कथमसौ तुल्या ? इत्याह
यदि दध्यादयः सन्ति दुग्धाद्यात्मसु सर्वथा ।
तेषां सतां किमुत्पाद्यं हेत्वादिसदृशात्मनाम्॥ १७॥
‘सदकरणात्' इत्येतत्समर्थनार्थमिदम् । यदि दुग्धाद्यात्मसु क्षीरादीनां स्वभावेषु दध्यादिलक्षणानि सर्वथा = सर्वात्मना विशिष्टरसवीर्यविपाकादिना विभक्तेन रूपेण मध्यावथावत् सन्ति, तदा तेषां सतां किमुत्पाद्यं रूपमस्ति, येन ते कारणैर्दुग्धादिभिर्जन्या स्युः ! हेत्वादिसदृश आत्मा येषामिति विग्रह: । हेतुः = प्रकृतिः, आदिशब्देन चैतन्यम्, तेषां च मध्यावस्थाभाव्यपुनर्जन्यं निष्पन्नं रूपं गृह्यते । एतेन कार्यकारणभावभङ्गप्रसङ्गसाधनं प्रमाणद्वयं सूचितम् ॥१७॥
साम्प्रतं स्फुटमेव प्रमाणयन्नाह
अन्यत्र
हेतुजन्यं' न' तत्कार्यं सत्तातो हेतुवित्तिवत् ।
हेतुः =प्रधानम्, लोकप्रसिद्धं क्षीरादि । तत्कार्यमिति महदादि, लोकप्रसिद्धं च दध्यादि । सत्तात इति सत्त्वात् । हेतुवित्तिवदिति । हेतुः = प्रधानम्, लोकप्रसिद्धं च क्षीरादि, वित्तिः = चैतन्यम्, ताभ्यां तुल्यं वर्तत इति हेतुवित्तिवत् । प्रयोगः = यत्सर्वाकारेण सन्न तत् केनचिज्जन्यम्, यथा प्रकृतिश्चैतन्यं वा । सदेव च कार्यं मध्यावस्थायाम्। सच्च सर्वात्मना परमतेन दध्यादीति व्यापकविरुद्धोपलब्धिप्रसङ्गः । न वाऽनैकान्तिकताहेतोः । अनुत्पाद्यातिशयस्यापि जन्यत्वे सर्वेषां जन्यत्वप्रसङ्गोऽनवस्थाप्रसङ्गश्च बाधकं प्रमाणम्; जनितस्यापि पुनर्जन्यत्वसङ्गात् । एवं तावत् कार्यत्वाभिमतानामकार्यत्वप्रसङ्गापादनं कृतम् ।
इदानीं कारणाभिमतानामकारणत्वप्रसङ्गापादनं कुर्वन्नाह
अतो नाभिमतो हेतुरसाध्यत्वात् परात्मवत् ॥ १८ ॥
१. पूवोक्तदूषणमित्यर्थः ।
नास्ति ।
२. दध्यादीनामित्यर्थः ।
- 3. न हेतुजन्यं - पा०. गा० 14. लौकिकसाध्यापेक्षया दृष्टान्तोऽयम् ।
३. 'भङ्ग' इति पदं पा० पुस्तके