________________
२३
प्रकृतिपरीक्षा र्निबन्धन एवायं प्रधानादिभ्यो महदाद्युत्पत्तिव्यवहारः। न चापि नित्यस्य कारणभावोऽस्ति, येन प्रधानात् कार्यभेदानामुत्पत्तिः सिध्येत्; नित्यस्य क्रमाक्रमाभ्यामर्थक्रियाविरोधात्।
स्यादेतत्-नास्माभिरपूर्वस्वभावोत्पत्त्या कार्यकारणभावोऽभीष्टः, येन स्वरूपाभेदे सति स विरुध्येत; यावता प्रधानं सर्पकुण्डलादिवन्महदादिरूपेण परिणामं गच्छत्तेषां महदादीनां कारणमिति व्यपदिश्यते, ते च महदादयस्तत्परिणामरूपत्वात् तत्कार्यतया व्यपदिश्यन्ते, परिणामश्चैकवस्त्वधिष्ठानत्वादभेदेऽपि न विरुध्यत इति? तदेतदसम्यक्; परिणामासिद्धेः । तथा हि-परिणामो भवन् पूर्वरूपपरित्यागाद्वा भवेत्, अपरित्यागाद्वा। यद्यपरित्यागात्, तदाऽवस्थासाङ्कर्यं स्यात्; 'वृद्धत्वाद्यवस्थायामपि युवत्वाद्यवस्थोपलब्धिप्रसङ्गात्। अथ परित्यागात्, तदा स्वभावहानिप्रसङ्गः, ततश्च पूर्वकं स्वभावान्तरं निरुद्धम्, अपूर्वं स्वभावान्तरमुत्पन्नमिति न कस्यचित् परिणामः सिध्येत्।
किञ्च-तस्यैवान्यथाभावलक्षणः परिणामो वर्ण्यते, तच्चान्यथात्वमेकदेशेन वा भवेत, सर्वात्मना वा? न तावदेकदेशेन; एकस्यैकदेशासम्भवात्। नापि सर्वात्मना; तदर्थान्तरोत्पादे पूर्वविनाशप्रसङ्गात् । तस्मान्न तस्यैवान्यथात्वं युक्तम्; स्वभावान्तरोत्पादनिबन्धनत्वात् तस्येति ।
अथापि स्याद्-व्यवस्थितस्य धर्मिणो धर्मान्तरनिवृत्त्या धर्मान्तरप्रादुर्भावः परिणामो वर्ण्यते, न तु स्वभावस्यान्यथात्वादिति? तदेतदसम्यक्। तथा हि-स प्रवर्त्तमानो निवर्तमानश्च धर्मो तदवस्थ एवेति कथमसौ परिणतो नाम! न ह्यर्थान्तरभूतयोः पटाश्वयोरुत्पादविनाशे सत्यविचलितात्मस्वरूपस्य घटादेः परिणामो भवति; अतिप्रसङ्गात्। एवं हि पुरुषोऽपि [G.24] परिणामी स्यात्। तत्सम्बद्धयोर्धर्मयोरुत्पादविनाशात्तस्य५ परिणामो व्यवस्थाप्यते, नान्यस्येति चेत् ? न; सदसतोः सम्बन्धाभावेन तत्सम्बन्धित्वासिद्धेः। तथा हि-सम्बन्धो भवन् सतो वा भवेद्, असतो वा। न तावत्सतः; तस्य समधिगताशेषस्वभावसम्पत्तेरनपेक्षतया क्वचिदपि पारतन्त्र्यायोगात्। नाप्यसतः; तस्य सर्वोपाख्याविरहलक्षणतया क्वचिदप्याश्रितत्वानुपत्तेः । न हि शशविषाणादिः क्वचिदाश्रितो युक्तः । न चापि व्यतिरिक्तधर्मान्तरोत्पादविनाशे सति परिणामो व्यवस्थाप्यते भवद्भिः; किं तर्हि ? यत्रात्मभूतैकस्वभावानुवृत्तिरवस्थाभेदश्च, तत्र भवतां परिणामव्यवस्था। न च धर्मिणः सकाशाद्धर्मयोर्व्यतिरेके सति एकस्वभावानुवृत्तिरस्ति, धर्येव हि तयोरेक आत्मा, स च व्यतिरिक्त इति नात्मभूतैकस्वभावानुवृत्तिः । न चापि प्रवर्त्तमाननिवर्तमानधर्मद्वयव्यतिरिक्तो धर्मी उपलब्धिलक्षणप्राप्तो दर्शनपथमवतरति कस्यचिदित्यतः स तादृशोऽसद्व्यवहारविषय एव विदुषाम् । अथानन्तरभूत इति पक्षः? तथाप्येकस्माद्धर्मिस्वरूपादव्यतिरिक्तत्वाद्विनाशोत्पादवतोधर्मयोरपि धर्मिस्वरूपवदेकत्वमेवेति केनाश्रयेण धर्मी परिणतः स्यात्, केनाश्रयेण धर्मो वा। अवस्थातुश्च धर्मिण:सकाशादव्यतिरेकाद्धर्मयोरवस्थातृस्वरूपवन्न निवृत्तिः, नापि प्रादुर्भावः । धर्माभ्यां च धर्मिणोऽनन्यत्वाद्धर्मस्वरूपवदपूर्वस्योत्पादः, पूर्वस्य च विनाश इति नैकस्य कस्यचित् परिणामः सिध्यति। तस्मान्न परिणामवशादपि भवतां कार्यकारणव्यवहारो युक्त इति। १-१. पाठोऽयं पा०, गा० पुस्तकयो स्ति। २. वृहत्वा०-गा०। ३. इदं स्थिरमतिलक्षणखण्डनं प्रतीयते । ४. धर्मिसम्बद्धयोत्यिर्थ।
५. धर्मिण इत्यर्थः। ६. भवेत्– गा० । ७. धर्म-गा।
८.पा०, गा० पुस्तकयो स्ति।