________________
तत्त्वसंग्रहे ततस्तन्मयसम्भूतं तज्जात्यन्वयदर्शनात्।
कुटादिभेदवत्तच्च प्रधानमिति कापिलाः॥१५॥ तन्मयसम्भूतमिति। सुखादिमयं यत्कारणं तस्मात्सम्भूतमित्यर्थः । अयं च साध्यनिर्देशः । तज्जात्यन्वयदर्शनादिति हेतुः । तया त्रैगुण्यलक्षणया जात्या अनुगतत्वदर्शनादित्यर्थः । कुटादिभेदवदिति। घटादिभेदवत्। यच्च तन्मयं कारणं तत्प्रधानमिति कापिला: साङ्ख्या वर्णयन्ति ॥ १५ ॥ तदत्रेत्यादिना प्रतिविधानमारभते
तदत्र सुधियः प्राहुस्तुल्या सत्त्वेऽपि चोदना।
यत्तस्यामुत्तरं वः स्यात् तत्तुल्यं सुधियामपि ॥१६॥ तत्र यत्तावदुक्तम्-'प्रधानादेवामी कार्यभेदास्तद्रूपा एव प्रवर्त्तन्ते' (तत्त्व०७) इति, तत्रेदं निरूप्यते-यद्यमी कार्यभेदाः प्रधानस्वभावा एव, तत्कथमेषां ततः कार्यतया प्रवृत्तिर्भवति, न हि यद्यस्मादव्यतिरिक्तं तत्तस्य कारणं कार्यं वा युक्तम्; भिन्नलक्षणत्वात् कार्यकारणयोः । अन्यथा हि 'इदं कार्यमिदं कारणं वा' इत्यसङ्कीर्णव्यवस्था कथं भवेत् । ततश्च यद्भवद्भिः'मूलप्रकृतेः कारणत्वमेव, भूतेन्द्रियलक्षणस्य षोडशकस्य गणस्य कार्यत्वमेव, बुद्ध्यहङ्कारतन्मात्राणां च पूर्वोत्तरापेक्षया कार्यत्वं कारणत्वं च' इति व्यवस्थानं कृतम्, तन्न स्यात्। यथोक्तम्
"मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः॥" (सा० का० ३) इति। सर्वेषामेव हि परस्पराव्यतिरेकात् कार्यत्वं कारणत्वं वा प्रसज्येत । यद्वा-आपेक्षिकत्वात् कार्यकारणभावस्य रूपान्तरस्य चापेक्षणीयस्याभावात् सर्वेषां पुरुषवन्न प्रकृतित्वम्, नापि विकृतित्वं स्यात्; अन्यथा पुरुषस्यापि प्रकृतिविकारव्यपदेशः स्यात् । आह च
"यदेव दधि तत्क्षीरं यत्क्षीरं तद्दधीति च।
वदता रुद्रिलेनैव ख्यापिता विन्ध्यवासिता॥" ( ) इति। |G.23) यच्च 'इदं हेतुमत्त्वादिधर्मयोगि व्यक्तं विपरीतमव्यक्तम्' (सा० का० १०) इति वर्णितम्, तदपि बालप्रलपितमेव। न हि यद्यस्मादभिन्नस्वभावं तत्तद्विपरीतं युक्तम्, रूपान्तरत्वलक्षणत्वाद्वैपरीत्यस्य; अन्यथा भेदव्यवहारोच्छेद एव स्यात्। ततश्च सत्त्वरजस्तमसां चैतन्यानां च परस्परं भेदाभ्युपगमो निर्निबन्धन एव स्यात्, ततश्च सहोत्पत्तिविनाशप्रसङ्गः; एकयोगक्षेमलक्षणत्वादभेदव्यस्थानस्य। तस्माद् व्यक्तरूपाव्यतिरिक्तत्वादव्यक्तमपि हेतुमत्त्वादिधर्मयोगि प्राप्नोति, व्यक्तस्वरूपवत, व्यक्तं वाऽहेतुमत्त्वादिधर्मयुक्तं स्यादव्यक्तरूपवदित्येकान्त एव; अन्यथा अतिप्रसङ्गः स्यात्। किञ्च-अन्वयव्यतिरेकनिश्चयसमधिगम्यो लोके कार्यकारणभावः प्रसिद्धः । न च प्रधानादिभ्यो महदाधुत्पत्तिनिश्चये कश्चिदन्वयो व्यतिरेको वा प्रतीतोऽस्ति, येन 'प्रधानान्महान् महतोऽहङ्कारः' इत्यादि सिध्येत् । तस्मान्नि१. पधानदेरमो-गा। २२. पाठोऽयं पा०. गा० पुस्तकयो स्ति।