________________
प्रकृतिपरीक्षा
२१ तस्य परिमाणं दृष्टम्, यथा-कुलालः परिमितान्मृत्पिण्डात् परिमितं घटं करोति प्रस्थग्राहिणम्, आढकग्राहिणम् । इदं च महदादि व्यक्तं परिमितं दृष्टम्-एका बुद्धिः, एकोऽहङ्कारः; पञ्च तन्मात्राणि, एकादशेन्द्रियाणि, पञ्च भूतानि (इति)। अतोऽनुमानेन साधयामः-अस्ति प्रधानं यत् परिमितं व्यक्तमुत्पादयतीति । यदि प्रधानं न स्यान्निष्परिमाणमिदं व्यक्तं स्यात् ।
२. इतश्चास्ति प्रधानम्; भेदानामन्वयदर्शनात्। यज्जातिसमन्वितं हि यदुपलभ्यते, तत्तन्मयकारणसम्भूतम्; यथा-घटशरावादयो भेदा मृज्जात्यन्वितास्ते मृदात्मककारणसम्भूताः। सुखदुःखमोहादिजातिसमन्वितं चेदं व्यक्तमुपलभ्यते, कुतः? प्रसादतापदैन्यादिकार्योपलब्धेः । तथा हि-प्रसादलाघवाभिष्वङ्गोद्धर्षप्रीतयः सत्त्वस्य कार्यम्। सुखमिति च सत्त्वमेवोच्यते। तापशोषभेदस्तम्भोद्वेगापद्वेगा रजस: कार्यम्। रजश्च दुःखम् । दैन्यावरणसादनाध्वंसबीभत्सगौरवाणि तमसः कार्यम् । तमश्च मोहशब्देनोच्यते। एषां च महदादीनां प्रसादतापदैन्यादिकार्यमुपलभ्यते । तस्मात् सुखदुःखमोहानां त्रयाणामेते सन्निवेशविशेषा इत्यवसीयते । तेन सिद्धमेषां प्रसादादिकार्यतः सुखाद्यन्वितत्वम् । तदन्वयाच्च तन्मयप्रकृति-सम्भूतत्वं सिद्धम्। तत्सिद्धौ च सामर्थ्याद्यासौ प्रकृतिस्तत् प्रधानमिति सिद्धम्-अस्ति प्रधानम्, भेदानामन्वयदर्शनादिति।
३. इतश्चास्ति प्रधानम्; शक्तित: प्रवृत्तेः । इह लोके यो यस्मिन्नर्थे प्रवर्तते स तत्र शक्तः; यथा-तन्तुवायः पटकरणे।अतः साधयामः-प्रधानस्यास्ति शक्तिर्यया व्यक्तमुत्पादयतीति । सा च शक्तिनिराश्रया न सम्भवति, तस्मादस्ति प्रधानं यत्र शक्तिवर्तत इति।।
४. इतश्चास्ति प्रधानम्; कारणकार्यविभागात् । इह लोके कार्यकारणयोर्विभागो दृष्टः । तथा हि-मृत्पिण्ड: कारणम्, घटः कार्यम्, स च मृत्पिण्डाद्विभक्तस्वभावः, तथा हिघटो मधूदकपयसाधारणसमर्थः, न मृत्पिण्डः । एवमिदं महदादिकार्यं दृष्ट्वा साधयामःअस्ति प्रधानम्, यस्मान्महदादिकार्यमुत्पन्नमिति।
५. इतश्चास्ति प्रधानंम् वैश्वरूप्यस्याविभागात्। वैश्वरूप्यमिति त्रयो लोका उच्यन्ते, एते हि प्रलयकाले क्वचिदविभागं गच्छन्ति । तथा हि-पञ्चभूतानि पञ्चसु तन्मात्रेष्वविभागं गच्छन्ति, तन्मात्राणि पञ्चेन्द्रियाणि चाहङ्कारे, अहङ्कारो बुद्धौ, बुद्धिः प्रधाने; तदेवं प्रलयकाले त्रयो लोका अविभागं गच्छन्ति। अविभागो नाम अविवेकः । यथा क्षीरावस्थायाम् अन्यत् क्षीरम्, अन्यद्दधि-इति विवेको न शक्यते कर्तुम्, तद्वत्प्रलयकाले 'इदं व्यक्तमिदमव्यक्तम् इति विवेको न शक्यते कर्तुम् । अतो मन्यामहे-अस्ति प्रधानं यत्र महदादिलिङ्ग-[G.22] मविभागं गच्छतीति।
तदत्राचार्येण 'समन्वयात्' इत्ययमेव हेतुरुक्तः परिशिष्टानामुपलक्षणार्थः । तत्र सुखादीत्यादिशब्देन दुःखमोहयोर्ग्रहणम्। व्यक्तमिति महदादिभूतपर्यन्तम्। व्यक्तं समीक्ष्यत इति। स्पष्टमुपलभ्यत इत्यर्थः । कथम्? इत्याह-प्रसादेत्यादि। आदिशब्दः प्रत्येकमभि सम्बध्यते। एतच्चास्माभिः पूर्वमेव व्याख्यातम् ॥ १४॥
एवं समन्वयात्' इत्यस्य हेतोः सिद्धिमुपदर्य प्रमाणं रचयन्नाह१. इत्य (नु) मीयते-गा० ।