SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ तत्त्वसंग्रहे तदेतदनुत्तरं बौद्धादेः । कस्मात् ? यस्माच्छक्ता अपि हेतवः कार्यं कुर्वाणाः शक्यक्रियमेव कुर्वन्ति, नाशक्यम् ॥११॥ ननु केनैतदुक्तम्-अशक्यं कुर्वन्तीति, येनैतत् प्रतिषिध्यते भवता; किन्त्वसदपि कार्यं कुर्वन्तीत्येतावदुच्यते, तच्च तेषां शक्यक्रियमेवेति? अत आह- . अकार्यातिशयं यत्तु नीरूपमविकारि च। . एवं मन्यते-असत्कार्यकारित्वाभ्युपगमादेवाशक्यक्रियं कुर्वन्तीत्युक्तं [G.20] भवति। तथा हि-यदसत् तन्नीरूपम्=निःस्वभावम्, यच्च नीरूपं तच्छशविषाणादिवदकार्यातिशयम्=अनाधेयातिशयम्, यच्च नाधेयातिशयं तदाकाशवदविकारि। तत्तथाभूतमसमासादिताविशेषरूपं कथं केनचिच्छक्यते कर्तुम् ! .. ... अथापि स्यात्-सदवस्थाप्रतिपत्तेर्विक्रियत एव तत् ? इत्यत आह विकृतावात्महान्याप्तेस्तक्रियेत कथं नु तैः ! ॥१२॥ . यस्माद्विकृताविष्यमाणायां यस्तस्यात्मा स्वभावो नीरूपाख्यो वर्ण्यते, तस्य हानिः प्राप्नोति। न ह्यसतः स्वभावापरित्यागे सति सद्रूपतापत्तिर्युक्ता। परित्यागे वा न.तर्हि असदेव सपतां प्रतिपन्नमिति सिध्येत्। अन्यदेव हि सद्रूपम्, अन्यच्चासद्रूपम्। तयोरवस्थितत्वात्। तस्माद् यदसत्, तदशक्यक्रियमेव। तथाभूतपदार्थकारित्वाभ्युपगमे हि कारणानामशक्यकारित्वमेवाभ्युपगतं स्यात्। - - - : यं केनचित् क्रियते, यथा-गगनाम्भोरुहम्। अतः शक्तिप्रतिनियमादित्यनुत्तरमेतत् ॥ १२॥ , . पञ्चमहेतुसमर्थनार्थमाह कार्यस्यैवमयोगाच्च किं कुर्वत् कारणं भवेत्। ततः कारणभावोऽपि बीजादे वकल्पते ॥१३॥ एवम् अनन्तरोक्तया नीत्या । यद्वा-यथोक्ताद्धेतुचतुष्टयात्। असत्कार्यवादे संपथाप कार्यस्यायोगात् किं कुर्वद्वीजादि कारणं भवेत् ! ततश्चैवं शक्यते वक्तुम्न कारणं बीजादि, अविद्यमानकार्यत्वाद्, गगनाब्जवदिति । न चैवं भवति, तस्माद्विपर्यय इति सिद्धम्-प्रागुत्पत्तेः सत्कार्यमिति ॥१३॥ स्यादेतद्, यद्यपि नाम सत्कार्यमित्येवं सिद्धम्, प्रधानादेवैते कार्यभेदाः प्रवर्तन्ते इत्येतत्तु कथं सिध्यति? इत्याह सुखाद्यन्वितमेतच्च व्यक्तं व्यक्तं समीक्ष्यते। प्रसादतापदैन्यादिकार्यस्येहोपलब्धितः ॥१४॥ तत्र प्रधानास्तित्वसाधने पञ्चामी वीतप्रयोगाः परैरुक्ताः। यथोक्तम् "भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृत्तेश्च।। कारणकार्यविभागादविभागाद् वैश्वरूप्यस्य ॥ . कारणमस्त्यव्यक्तम्।" (सा० का० १४-१५) इति । [G.21] अयमर्थ:-१. अस्ति प्रधानम्, भेदानां परिमाणात् । इह लोके यस्य कर्ता भवति १. तद्रूपता०-गा। २. ०न विकल्पते-गा।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy