________________
प्रकृतिपरीक्षा
१९
शक्तस्य शक्यकरणात् कारणभावाच्च' सत्कार्यम् " ॥ ( सां०का० ९) इति । तत्र प्रथमहेतुसमर्थनार्थमिदमुच्यते - यदि त्वंसद्भवेत्कार्यमित्यादि । यदि हि कारणात्मनि प्रागुत्पत्तेः कार्यं नाभविष्यत्, तदा तन्न केनचिदकरिष्यत्, यथा- गगननलिनम्। प्रयोगःयदसत्तन्न केनचित् क्रियते, यथा गगनाम्भोरुहम्, असच्च प्रागुत्पत्तेः परमतेन कार्यमिति व्यापकविरुद्धोपलब्धिप्रसङ्गः । न चैवं भवति, तस्माद्यत्क्रियते तिलादिभिस्तैलादिकार्यं तत्तस्मात्प्रागपि सदिति सिद्धम् । शक्तित इति शक्तिरूपेण । व्यक्तिरूपेण तु कापिलैरपि प्राक् सत्त्वस्यानिष्टत्वात्। नैरूप्यादिति । निःस्वभावत्वात् ॥ ८ ॥
द्वितीयहेतुसमर्थनार्थमाह
कस्माच्च नियतान्येव शालिबीजादिभेदतः । उपादानानि गृह्णन्ति तुल्येऽसत्त्वेऽपरं न तु ॥ ९ ॥
[G.19] यदि त्वसद्भवेत्कार्यम्, तदा पुरुषाणां प्रतिनियतोपादानग्रहणं न स्यात् । तथा हिशालिफलार्थिनः शालिबीजमेवोपाददते, न कोद्रवबीजम्; तथा 'श्वो मे ब्राह्मणा भोक्तारः ' इति दध्यर्थिनः क्षीरमुपाददते, न सलिलम् । तंत्र यथा शालिबीजादिषु शाल्यादीनामसत्त्वम्, तथा कोद्रवबीजादिष्वपीति तत्किमिति तुल्येऽपि सर्वत्र शालिफलादीनामसत्त्वे प्रतिनियतान्येव शालिबीजादीन्युपादीयन्ते, यावता कोद्रवादयोऽपि सालिफलार्थिभिरुपादीयेरन्, असत्त्वाविशेषात् ! अथ तत्फलशून्यत्वात् तैस्ते' नोपादीयन्ते ? यद्येवम्, शालिबीजमपि शालिफलार्थिना नोपदेयं स्यात्; तत्फलशून्यत्वात्, कोद्रवबीजवत् । न चैवं भवति, तस्मात्तत्र' तत्कार्यमस्तीति गम्यते ॥ ९॥
तृतीयहेतुसमर्थनार्थमाह
सर्वं च सर्वतो भावाद् भवेदुत्पत्तिधर्मकम्।
' तादात्म्यविगमस्येह सर्वस्मिन्नविशेषतः ॥ १० ॥
यदि च 'सदेव कार्यमुत्पद्यते ' इति भवतां मतम्, तस्मात् सर्वस्मात् पदार्थात्तृणपांसुलोष्ठादिकात् सर्वं सुवर्णरजतादि कार्यमुत्पद्येत । कस्मात् ? तादात्म्यविगमस्य सर्वस्मिन्नविशिष्टत्वात्। विवंक्षिततृणादिभावात्मताविरहस्य सर्वस्मिन्नुत्पत्तिमति भावे निर्विशिष्टत्वादित्यर्थः । पूर्वं कारणमुखेन प्रसङ्ग उक्तः, सम्प्रति तु कार्यद्वारेणेति विशेषः । न च सर्वं सर्वतो भवति । तस्माद्रयं नियमः, तत्रैव तस्य सम्भवादिति गम्यते ॥ १०॥
स्यादेतत्—कारणानां प्रतिनियतेष्वेव कार्येषु शक्तयः प्रतिनियताः तेन 'कार्यस्यासत्त्वेऽपि किञ्चिदेव कार्यं क्रियते, न गगनाम्भोरुहम्; किञ्चिदेवोपादानमुपादीयते, यदेव समर्थम्, न तु यत्किञ्चित् किञ्चिदेव तु कुतश्चिद्भवति, न तु सर्वं सर्वत: ' ? इत्येतच्चोद्य-मुत्थाप्योत्तराभिधानव्याजेन चतुर्थहेतुसमर्थनार्थमाह
शक्तीनां नियमादेषां नैवमित्यप्यनुत्तरम् । शक्यमेव यतः कार्य शक्ताः कुर्वन्ति हेतवः ॥ ११॥
एषामिति। कारणाभिमतानां भावानाम् । नैवमिति । यथोक्तं दूषणं न भवतीत्यर्थः ।
1
२. तैस्तै:- गा० । तै:-नरैस्ते कोद्रवा इत्यर्थः ।
३. शालावित्यर्थः ।
१. करणभावाच्च- गाए ।