________________
तत्त्वसंग्रहे
तन्मात्राणि महाभूतानि जनयन्तीति । तस्मात् त्रैगुण्यादिरूपेण तद्रूपा एवामी कार्यभेदाः प्रवर्त्तन्ते ।
यथोक्तम्—
१८
" त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि ।
व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ (सा०का० ११) इति । ननु यदि तद्रूपा एव कार्यभेदाः, तत्कथं शास्त्रे व्यक्ताव्यक्तयोर्वैलक्षण्यमुपवर्णितम्, तथा हीश्वरकृष्णेोक्तम्' -
4
“ हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्।
सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् " ॥ (सा० का० १० ) इति । तत्र ह्ययमर्थ:- हेतुमत्- कारणवत्, व्यक्तमेव । तथा हि-प्रधानेन हेतुमती बुद्धिः, अहङ्कारो बुद्ध्या हेतुमान्, पञ्चतन्मात्राण्येकादशेन्द्रियाण्यहङ्कारेण हेतुमन्ति, भूतानि तन्मात्रैः। न त्वेवमव्यक्तम्; तस्य कुतश्चिदप्यनुत्पत्तेः । तथा व्यक्तमनित्यम्; उत्पत्तिधर्मकत्वात् । न त्वेवमव्यक्तम्; तस्यानुत्पत्तिमत्त्वात् । यथा च प्रधानपुरुषौ दिवि भुवि चान्तरिक्षे च सर्वत्र व्यापितया वर्तेते, न तथा व्यक्तं वर्त्तते, किन्तु तदव्यापि । यथा च संसारकाले त्रयोदशविधेन बुद्ध्यहङ्कारेन्द्रियलक्षणेन शरीरेण करणेन संयुक्तं सूक्ष्मशरीराश्रितं व्यक्तं संसरति, न त्वेवमव्यक्तम्; तस्य विभुत्वेन सक्रियत्वायोगात् । बुद्ध्यहङ्कारादिभेदेन चानेकविधं व्यक्तमुपलभ्यते, नाव्यक्तम्; तस्यैकस्यैव सतो लोकत्रयकारणत्वात्। आश्रितं च [G.18] व्यक्तम्; यद्यस्मादुत्पद्यते तस्य तदाश्रितत्वात् । न त्वेवमव्यक्तम्; तस्याकार्यत्वात् । लिङ्गं च व्यक्तम्; लयं गच्छतीति कृत्वा । तथा हि-प्रलयकाले भूतानि तन्मात्रेषु लीयन्ते, तन्मात्राणीन्द्रियाणि चाहङ्कारे, अहङ्कारो बुद्धौ, बुद्धिश्च प्रधाने । न त्वेवमव्यक्तं क्वचिदपि लयं गच्छति; तस्याविद्यमानकारणत्वात् । सावयवं च व्यक्तम्; शब्दस्पर्शरसरूपगन्धात्मकैरवयवैर्युक्तत्वात्। न त्वेवमव्यक्तम्; प्रधानात्मनि शब्दादीनामनुपलब्धेः । किञ्च यथा पितरि जीवति पुत्रो न स्वतन्त्रो भवति, तथा व्यक्तं सर्वदा कारणायत्तत्वात् परतन्त्रम्, न त्वेवमव्यक्तम्; तस्य नित्यमकारणांधीनत्वात्।'
तदेतत् सर्वमाशङ्कयाह – भावत इति । भावतः = परमार्थतः, ताद्रूप्यम् । प्रकृतिविकारभेदेन तु परिणामविशेषाद्भेदो यथोक्तो न विरुध्यत इत्यर्थः ।
अथ वा- भावत इति । स्वभावतस्त्रैगुण्यरूपेण तद्रूपा एव प्रवर्त्तन्ते । सत्त्वरजस्तमसां तूत्कटानुत्कटत्वविशेषात्सर्गवैचित्र्यं महदादिभेदेनाविरुद्धमेवेत्यर्थः । तदनेन 'कारणात्मनि कार्यमस्ति' इति प्रतिज्ञातं भवति ॥ ७ ॥
तत्र कथमवगम्यते प्रागुत्पत्तेः सत्कार्यम् ? इत्याहयदि त्वसद्भवेत् कार्यं कारणात्मनि शक्तितः । कर्तुं तन्नैव शक्येत नैरूप्याद् वियदब्जवत् ॥ ८ ॥ सत्कार्यत्वप्रसिद्धये परैः पञ्च हेतव उक्ता: -
'असदकरणाद्, उपादानग्रहणात्,
44
१. कृष्णोक्तम् पा०, गा० ।
सर्वसम्भवाभावात्।
२. नैरुप्याद् — गा० ।