________________
- १. प्रकृतिपरीक्षा तत्र प्रकृतिव्यापाररहितत्वप्रतिपादनाय साङ्ख्यमंतमुपदर्शयन्नाह' अशेषशक्तिप्रचितात् प्रधानादेव केवलात्।
कार्यभेदाः प्रवर्त्तन्ते तद्रूपा एव भावतः ॥७॥ यदशेषाभिर्महदादिकार्यग्रामजनिकाभिरात्मभूताभिः शक्तिभिः, प्रचितम् युक्तं सत्त्वरजस्तमसां साम्यावस्थालक्षणं प्रधानम्, तत एवैते महदादयः कार्यभेदाः प्रवर्तन्ते इति कापिलाः। प्रधानादेवेत्यवधारणं कालपुरुषादिव्यच्छेदार्थम् । केवलादिति वचनं सेश्वरसाढयोपकल्पितेश्वरनिरासार्थम्। प्रवर्त्तन्त इति साक्षात् पारम्पर्येण वोत्पद्यन्त इत्यर्थः । तथा हि तेषां प्रक्रिया-प्रधानाद् बुद्धिः प्रथममुत्पद्यते, बुद्धेश्चाहङ्कारः, अहङ्कारात् पञ्चतन्मात्राणि शब्दस्पर्शरसरूपगन्धात्मकानि, इन्द्रियाणि चैकादशोत्पद्यन्ते; पञ्च बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणलक्षणानि, पञ्च कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थाः, मनश्चैकादशमिति; पञ्चभ्यश्च तन्मात्रेभ्यः, पञ्च भूतानि-शब्दादाकाशम्, स्पर्शाद्वायुः, रूपात् तेजः, रसादापः, गन्धात् पृथिवीति । यथोक्तमीश्वरकृष्णेन- .
"प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः ।
तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि" ॥ (सां० का० २२) इति । तत्र महानिति बुद्धेराख्या। बुद्धिश्च–'अयं घटः', 'अयं पटः' इति विषयाध्यवसायलक्षणा। अहङ्कारस्तु- 'अहं सुभगः', 'अहं दर्शनीयः' इत्याद्यभिधानलक्षणः । मनस्तु सङ्कल्पलक्षणम् । तद्यथा-कश्चिदेवं बटुः श्रृणोति ग्रामान्तरे भोजनमस्तीति, तत्र तस्य सङ्कल्पः [G.17] स्यात्-यास्यामीति, किं तत्र गुडदधि स्यात्, उतस्विद्दधि' इत्येवं सङ्कल्पवृत्ति मन इति । तदेवं बुद्ध्यहङ्कारमनसां परस्परं विशेषो बोद्धव्यः । शेषं सुबोधम्।
एते च महदादयः प्रधानपुरुषौ चेति पञ्चविंशतिरेषां तत्त्वानि । यथोक्तम्.. "पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे · रतः।
. जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः"॥ ( ) इति। एते. यथोक्ताः कार्यभेदाः प्रधानात् प्रवर्त्तमाना न बौद्धाद्यभिमता इव कार्यभेदाः कारणादत्यन्तभेदिनो भवन्ति, किन्तु तद्रूपा एव। तत्-प्रधानम्, रूपम् आत्मा येषामिति विग्रहः । त्रैगुण्यादिरूपेण प्रकृत्यात्मभूता एवेति। तथा हि-लोके यदात्मकं कारणं भवति, तदात्मकमेव कार्यमुपलभ्यते, यथा- कृष्णैस्तन्तुभिरारब्धः पट: कृष्णो भवति, शुक्लैस्तु शुक्लः । एवं प्रधानमपि त्रिगुणात्मकम् । तथा बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतात्मकं व्यक्तमपि त्रिगुणमुपलभ्यते, तस्मात्तद्रूपम्। किञ्च-अविवेकि। तथा हि-'इमे सत्त्वादयः', 'इदं च महदादि व्यक्तम्' इति पृथग्न शक्यते कर्तुम्; किन्तु ये गुणास्तव्यक्तं यद्व्यक्तं ते गुणा इति। किञ्च-द्वयमपि व्यक्तमव्यक्तं च विषयः; भोग्यस्वभावत्वात्। सामान्यं च सर्वपुरुषाणाम्; भोग्यत्वात्, मल्लदासीवत् । अचेतनात्मकं च; सुखदुःखमोहावेदकत्वात्। प्रसवधर्मि च । तथा हि-प्रधानं बुद्धिं जनयति, बुद्धिरप्यहङ्कारम्, अहङ्कारोऽपि तन्मात्राणीन्द्रियाणि चैकादश,