________________
१६
तत्त्वसंग्रहे
शयो भगवतः? इत्याह-गदताम्वर इति । यद्यपि ते श्रावकादयः प्रतीत्यसमुत्पादं गदन्ति, तथापि भगवानेव तेषां गदताम्वरः प्रधानम् । भगवदुपदिष्टयैव धर्मतत्त्वस्य प्रकाशनान्न हि तेषां स्वतो यथोक्तप्रतीत्यसमुत्पाददेशनायां शक्तिरस्ति। सर्वगुणदोषप्रकर्षापकर्षनिष्ठाधिष्ठानत्वाद्वा भगवानेव श्रेष्ठः, नेतरे; तेषां तद्विपरीतत्वात्। एतेन च भगवतः [G.16] श्रावकादिभ्यो विशिष्टत्वप्रतिपादनेन सवासनाशेषक्लेशज्ञेयावरणप्रहाणलक्षणा स्वार्थसम्पत् परिदीपिता भवति। अन्यथा कथमिव तेभ्यो विशिष्टो भवेत्, यदि यथोक्तगुणयोगिता न स्याद्भगवतः ! अत एवाह- तं सर्वज्ञमिति । अयं च सर्वज्ञसिद्ध्युपक्षेपः।
__ अथ तं प्रणम्य किं क्रियते? इत्याह-क्रियते तत्त्वसंग्रह इति । यथोक्तान्येव प्रतीत्यसमुत्पादविशेषणानि तत्त्वानि; अविपरीतत्वात्। तेषामितस्ततो विप्रकीर्णानामेकत्र हि संक्षेपः-संग्रहः । तत्प्रतिपादकत्वाद् ग्रन्थस्यापि तथा व्यपदेशः-सीताहरणं काव्यमिति यथा. अथ वा-समन्ताद्वा गृह्यन्ते अनेन तत्त्वानीति संग्रहः, ग्रन्थ एवोच्यते। क्रियते' इति प्रारब्धापरिसमाप्तकालापेक्षया वर्तमानकालनिर्देशः॥६॥
इत्यनुबन्धचतुष्टयनिरूपणम् ॥
१. पा०, गा० पुस्तकयो स्ति।
२. स्वधि (.धी ?) सम्पत्-गा।
'