________________
अनुबन्धचतुष्टयनिरूपणम् अथायमेवम्भूतः प्रतीत्यसमुत्पादः किं स्वयभिसम्बुध्य गदितो भगवता? आहोस्वित् पराभिमतापौरुषेयवेदाश्रयेण, यथाहुजैमिनीया:- .
"तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टा न विद्यते।
वचनेन तु नित्येन यः पश्यति स पश्यति"॥ (तत्त्व० ३१७४) इति? नैवमित्याह- स्वतन्त्रश्रुतिनिःसङ्ग इति । स्वतन्त्रा श्रुतिः-स्वतः प्रमाणभूतो वेदः, नित्यं वचनमिति यावत् । तस्या निःसङ्ग-निरास्थः, तन्निरपेक्ष एव साक्षाद्दर्शी प्रतीत्यसमुत्पादं गदितवानित्यर्थः । न चाप्यपौरुषेयं वाक्यमस्ति, यथोक्तं भगवता-"इत्येते, आनन्द, पौराणा महर्षयो वेदानां कर्तारो मन्त्राणां प्रवर्तयितारः" इति (दी०नि० १.३.३४)। एतच्च पश्चात्प्रतिपादयिष्याम इति भावः । अयं च श्रुतिपरीक्षायाः स्वतन्त्रप्रामाण्यपरीक्षायाश्चोपक्षेपः। [G.15] अथ समधिगताशेषस्वार्थसम्पत्तेर्भगवतः किमर्थमियं प्रतीत्यसमुत्पाददेशना? इत्याह- जगद्धितविधित्सयेति। जगते हितं जगद्धितम्। तत्पुनरविपरीतप्रतीत्यसमुत्पादावबोधोपायमशेषक्लेशज्ञेयावरणप्रहाणम्, तद्विधातुमिच्छा जगद्धितविधित्सा, सा तद्देशनायाः कारणम्। साऽपि जगद्धितविधित्सा कुतोऽस्य जायेत? इत्याह-अनल्पेत्यादि। अनल्पै कल्पासङ्खयेयैः सात्मीभूता महादया यस्येति विग्रहः । सा च महादया भगवतः समधिगताशेषस्वार्थसम्पत्तेरपि परार्थकरणव्यापारापरित्यागादवगम्यते॥५॥
अथासौ सात्मीभूतमहादयः किं कृतवान् ? इत्याह- य इत्यादि। य इति । सामान्यवचनोऽपि बुद्धे भगवति वर्त्तते'; अन्यस्य यथोक्तगुणासम्भवात्। प्रतीत्यसमुत्पादमिति। हेतून्-प्रत्ययान्, प्रतीत्यसमाश्रित्य, यः स्कन्धादीनामुत्पादः स प्रतीत्यसमुत्पादः । एतदुक्तं भवति-हेतुप्रत्ययबलेनोत्पन्नान् स्कन्धादीन् यो अगादेति । यद्यपि समुत्पादः' इति व्यतिरेकीव निर्देशः, तथापिं प्रतीत्यसमुत्पन्नमेव वस्तु भेदान्तरप्रतिक्षेपमात्रजिज्ञासायां तथा निर्दिश्यते। यद्वा-समुत्पद्यत इति समुत्पादः, 'कृत्यलुटो बहुलम्' (पा०सू० ३.३.११३) इति वचनात् कर्तरि घञ्। ततः प्रतीत्यशब्देन 'सुप्सुपार' (पा०सू० २.१.४) इति मयूरव्यंसकादित्वाद् (पा०सू० २.१.७२) समासः । असमस्तमेव वा । एतेन च सर्वेण भगवतः सम्यक्परहितानुष्ठानसम्पत् सोपाया परिदीपिता भवति। तथा हि-यः प्रतीत्यसमुत्पादमेवम्भूतं जगादेत्यनेन यथावत्परहितानुष्ठानं भगवतो दर्शितम्। इदमेव हितानुष्ठानं भगवतो यत्परेषामविपरीतस्वर्गापवर्गमार्गोपदेशः । यथोक्तम्
"युष्माभिरेव कर्त्तव्यमाख्यातारस्तथागताः" (ध० प० २०.२७६) इति। ___अस्याश्चाविपरीतपरहितानुष्ठानसम्पद उपायो धर्मेषु साक्षाद्दर्शित्वम्, महाकरुणा च; यतः कृपालुरपि यथाभूतापरिज्ञानान्न सम्यक्परहितमुपदेष्टं समर्थः, परिज्ञानवान पि कृपाहीनो नैवोपदिशेत्, उपदिशन्नप्यहितमप्युपदिशेत् । तस्मात् प्रज्ञाकृपे द्वे अपि सम्यक् परहितानुष्ठानोपायौ भगवतः । तच्च साक्षाद्दर्शित्वं स्वतन्त्र श्रुतिनि:सङ्गत्वेन दर्शितम्; सात्मीभूतमहादयत्वेन च महाकरुणायोगः।
ननु चाविपरीतः प्रतीत्यसमुत्पादो बोधिसत्त्वश्रावकादिभिरपि निर्दिष्टः, तत् कोऽत्राति१. प्रवर्तते-पा०, गा०।
२. 'सह सुपा' इति पाणिनिसूत्रपाठः। ३. ० नोपायो-गा।