________________
१४
तत्त्वसंग्रहे नास्तीत्यर्थः । अणीयसापीति-सूक्ष्मतरेणापि। न केवलं बहुभिः सत्त्वज्ञेयत्वादिभिरित्यपिशब्देन दर्शयति। एकस्यापि हि रूपस्यानुगमे सर्वात्मनानुगतिः स्यादिति भावः। एतच्च पश्चात् प्रतिपादयिष्यति । स चायमुक्तो भगवता- “कथं न शाश्वतोऽङ्कुरः ? यस्मादन्योऽङ्कुरोऽन्यद्बीजम्, न तु य एवाङ्करस्तदेव बीजम् ।......तथा विसदृशो बीजादङ्कर इति, अतो न संक्रान्तितः " (शा० सू० पृ० १०२) इति । अयं च स्याद्वादपरीक्षोपक्षेपः॥ ३॥
अथ किमसङ्कीर्णस्वभावा अपि स्कन्धादयोऽध्वस्वजहत्स्वभावा एव वर्तन्ते, यथाहुरेके संक्रान्तिवादिनः सर्वास्तिवादा:? नैवमित्याह
__यदि तु संक्रान्तिः स्यात्, तदा सर्वात्मना सत्त्वान्न किञ्चिजन्यमस्तीति प्रतीत्यसमुत्पादस्यैवायोग इति भावः। न विद्यते संक्रान्तिः अध्वसु सञ्चारः स्कन्धादीनां [G.14] यत्रेति विग्रहः । एतच्चाभिहितं भगवता । यथोक्तम्- "चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति, निरुध्यमानं न क्वचित्सन्निचयं गच्छति। इति हि, भिक्षवश्चक्षुरभूत्वा भवति, भूत्वा च प्रतिविगच्छति" ( . ) इति। अयं च त्रैकाल्यपरीक्षोपक्षेपः। .
___ अथ किमयं दृष्टमात्रकालभावी, यथाहुश्चार्वाका:- "भस्मीभूतस्य शान्तस्य पुनरागमनं कुंतः" इति? नेत्याह-अनाद्यन्तमिति। अविद्यमानावाद्यन्तावस्मिन्निति विग्रहः । एतदपि निर्दिष्टं भगवता-"अनवराग्रो हि, भिक्षवो, जातिसंसारः" (सं० नि०.१५. १) इत्यादिना। अवरमित्यन्तोऽभिधीयते, अग्रंमिति चादिः, तयोः प्रतिषेधाद् 'अनवराग्रः' इत्युच्यते। एतच्चानुत्पन्नार्यमार्गानधिकृत्योक्तम्, उत्पन्नार्यमार्गाणां तु सान्त एव संसारः। अत एवोक्तम्
"दी? बालस्य संसारः सद्धर्ममविजानतः" (ध०प०, ५.६०) इति। अयं च लोकायतपरीक्षोपक्षेपः। ..
अथ किमयं प्रतीत्यसमुत्पादो बहिरर्थात्मकः? आहोस्विच्चित्तमात्रशरीर इति? आहप्रतिबिम्बादिसन्निभमिति। एतेन चित्तमात्रात्मक एवेति दर्शयति। तथा हीदमुक्तं भवतियथा हि प्रतिबिम्बालातचक्रगन्धर्वनगरादयश्चित्तमात्रशरीराः, तथाऽयमपीति। एतच्चोक्तं भगवता
"बाह्यो न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते।
वासनालुठितं. चित्तमर्थाभासं प्रवर्तते" ॥ (ल०सू० १०:१५४-५५) इति। अयं च बहिरर्थपरीक्षोपक्षेपः।
तदेवं यथोक्तासदर्थकल्पनाजालरहितत्वं प्रतीत्यसमुत्पादस्य प्रतिपाद्योपसंहरन्नाहसर्वप्रपञ्चेत्यादि। सर्वेषां यथोक्तानां प्रकृतिहेतुत्वादीनां प्रपञ्चानां सन्दोह:-समूहः, तेन निर्मुक्तः । अथ किमयमन्यैरपि हरि-हर-हिरण्यगर्भादिभिरेवमभिसम्बुद्धः? नेत्याह-अगतं परैरिति। सर्वतीर्थानां वितथात्मदृष्ट्यभिनिविष्टत्वाद्भगवत एवायमावेणिकोऽभिसम्बोध इति दर्शयति। एतच्च सर्वपरीक्षासु प्रतिपादयिष्यति ॥४॥ १-१, नु शाश्वतो०- सर्वत्र।
२. संक्रमते-सर्वत्र। ३. शान्त- पा०, गा०॥
४. 'वासनालुलितम्' इति तत्रस्थ: पाठः।