________________
अनुबन्धचतुष्टयनिरूपणम् दोषरहितत्वात् । तीर्थिकप्रमाणलक्षणं त्वस्पष्टमिति दर्शनार्थम् ‘स्पष्टलक्षणम्' इत्याह । तेन संयुक्तम्-समन्वितं यत्प्रमाद्वितयम्= प्रत्यक्षानुमानाख्यम्, तेन निश्चितम् । एतच्च सर्वपरीक्षासु प्रतिपादयिष्यति। एतदपि भगवतोऽनुमतम्। यथोक्तम्
___"तापाच्छेदाच्च निकषात् सुवर्णमिव पण्डितैः।
__ परीक्ष्य भिक्षवो ग्राह्यं मद्वचो न तु गौरवात्"॥ (तत्त्व० ३५८७) इति। तत्र प्रत्यक्षस्य लक्षणम्-भ्रान्तिकल्पनाभ्यां रहित्वम्। तच्च भगवतोक्तमेव यदाह"चक्षुर्विज्ञानसमङ्गी' नीलं विजानाति, नो तु नीलम्" (वि० का० पा०) इति । तथा हि 'नीलं विजानाति' इत्यनेनाविपरीतविषयत्वख्यापनादभ्रान्तत्वमुक्तम्, 'नो तु नीलम्' इत्यनेन नामानुविद्धार्थग्रहणप्रतिक्षेपात् कल्पनारहित्वम्। अनुमानस्यापि लक्षणमुक्तमेवानुमानाश्रयं लिङ्गं दर्शयता। तथा हि-साध्यार्थाविनाभूतं लिङ्गं विनिश्चितं सदनुमानज्ञानस्य कारणम्, तच्च "यत्किञ्चिद् भिक्षवः समुदयधर्मकं सर्वत्र निरोधधर्मकम्" ( ) इत्येवं साध्येन हेतोर्व्याप्तिमुपदर्शयता स्फुटतरमेव प्रकाशितम्। यथोक्तम्
"अनुमानांश्रयो . लिङ्गमविनाभावलक्षणम्। [G.13] व्याप्तिप्रदर्शनाद्धेतोः साध्येनोक्तः स च स्फुट:"॥
(प्र० वा० १.२८७) इति। तच्च लिङ्गं स्वभाव-कार्यानुपलम्भविशेषभेदेन त्रिधा भिद्यते। तत्र 'यत्किञ्चिद् भिक्षवस्समुदयधर्मकम्' इत्यनेन स्वभावाख्यं लिङ्गमुपदर्शितमेव। कर्माख्यमपि
"धूमेन ज्ञायते वह्निः सलिलं च बलाकया। _ निमित्तैर्ज्ञायते गोत्रं बोधिसत्त्वस्य धीमतः"॥ इति ब्रुवता दर्शितम्।
अनुपलम्भविशेषाख्यमपि दर्शितमेवानुपलम्भमात्रस्य प्रामाण्यं प्रतिक्षिपता। यथोक्तम्- "मा, भिक्षवः, पुद्गलः पुद्गलं प्रमिणोतु, पुद्गले वा प्रमाणमुदृह्णातु, क्षण्यते हि, भिक्षवः, पुद्गलः प्रमिण्वन् । अहं वा पुद्गलं प्रमिणुयाम्, यो वा स्यान्मादृशः" ( ) इति। ऐतेन हिं स्वभावविप्रकृष्टेष्वनुपलम्भमात्रस्य प्रामाण्यं प्रतिक्षिप्तम्। 'अहं वा' इत्यादि ब्रुवताऽनुपलम्भविशेषस्यैव प्रामाण्यमित्येतदपि स्फुटतरमेव दर्शितम् । अयं च प्रत्यक्षानुमान प्रमाणान्तरपरीक्षाणामुपक्षेपः।
___ अथ किमयं प्रतीत्यसमुत्पादः केनचिद्वस्तुत्वादिना रूपेण सान्वयः, यथाहुः स्याद्वादिनः? आहोस्विदसंकीर्णस्वभावः? किं चात:? सान्वयत्वे प्रत्यक्षादीनां लक्षणसाङ्कर्यम्, कार्यकारणयोश्च स्वभावभेदादजन्यजनकत्वम्, ततश्च न स्पष्टलक्षणयोगिप्रमाद्वितयनिश्चितत्वम्। नापि प्रतीत्यसमुत्पादार्थो युक्तः; असङ्कीर्णस्वभावत्वेऽपि सहकारिणां भेदाविशेषादजनकाभिमतपदार्थक्रियाकारित्वं न भवेत् ? अत्राह-अणीयसापीत्यादि । एवं मन्यते-उत्तर एवात्र पक्षः । न चात्र यथोक्तदोषावसरः-इति पश्चात् प्रतिपादयिष्यामः । मिश्रीभूत: सङ्कीर्णः, अपरात्मा यत्रेति विग्रहः । अपरस्य-कारणादेः स्वभावस्य, यत्र लेशतोऽपि कार्याद्यात्मन्यनुगमो १. चक्षुर्विज्ञानसङ्गी-गा।
२. द्र०-आ० नरेन्द्रदेवकृता अभिधर्मकोशव्याख्या, २५ पृ० । ३. 'साथ्यो नोक्त: ' गा० ।
४. स अविनाभाव इत्यर्थः।