________________
१२ .
तत्त्वसंग्रहे परिग्रहः तेषां समाश्रय इति विग्रहः। तत्रोक्तं भगवता-"इति हि भिक्षवोऽस्ति कर्मास्ति फलं कारकस्तु नोपलभ्यते, य इमान् स्कन्धान्विजहात्यन्यांश्च स्कन्धानुपादत्तेऽन्यत्र धर्मसंकेतात्। तत्रायं धर्मसंकेतो यदुतास्मिन्सतीदं भवति" (ल०सू० १०.१८५) इत्यादि। अयं च कर्मफलसम्बन्धपरीक्षोपक्षेपः। स पुनरयं प्रतीत्यसमुत्पादः स्कन्धधात्वायतनानां द्रष्टव्यः; तेषामेव प्रतीत्यसमुत्पन्नत्वात्॥१॥
ननु द्रव्यगुणकर्मादयो वस्तुभूताः सन्ति, तेषां कस्मान्न भवति? इत्यत्राह-गुणेत्यादि। गुणाश्च द्रव्याणि च क्रियाश्च जातिश्च समवायश्चेति द्वन्द्वः । जातिशब्देन परमपरं च द्विविधमपि सामान्यं गृह्यते । आदिशब्देन अन्त्यद्रव्यवर्तिनां विशेषाणाम्; ये च धर्मिव्यतिरेकिणो धर्माः कैश्चिदुपवर्ण्यन्ते, यथा- 'षण्णामपि पदार्थानामस्तित्वं सदुपलम्भकप्रमाणविषयत्वम्' इत्येवमादयः, तेषां ग्रहणम्। गुणादयश्च ते उपाधयश्च विशेषणानीति विशेषणसमासः । तैः शून्यं रहितमित्यर्थः । तत्रेदमुक्तं भगवता- "सर्वं सर्वमिति ब्राह्मण! यावदेव पञ्च स्कन्धा द्वादशायतनान्यष्टादश धातवः" इति ( . )। अयं च षट्पदार्थपरीक्षोपक्षेपः।
ननु चोपाध्यभावे कथं प्रतीत्यसमुत्पादः शब्दविकल्पाभ्यां विषयीक्रियते, न च ताभ्यामविषयीकृतमभिधातुं पार्यते, न च शब्दविकल्पयोरुपाधिमन्तरेण प्रवृत्तिरस्ति, तत्कथं तं भगवान् जगाद? इत्याह-आरोपिताकारेत्यादि। आरोपितः बाह्यत्वेनाध्यारोपितः, [G.12] आकार:=स्वभावो यस्य शब्दप्रत्यययोर्गोचरस्य स तथोक्तः, आरोपिताकार:२-शब्दप्रत्ययोर्गोचर:=विषयो यत्र प्रतीत्यसमुत्पादे स तथोक्तः । प्रत्ययशब्दः शब्दशब्दसन्निधानादाविष्टाभिलापात्मके प्रत्ययविशेषे विकल्पे द्रष्टव्यः, तयोरेकविषयत्वाव्यभिचारित्वेन सहचरितत्वात् । तेनैतदुक्तं भवति–यद्यप्युपाधयो न सन्ति, तथापीतरेतरव्यावृत्तवस्तुदर्शनद्वारायातो बहीरूपत्वेनाध्यवसितो विकल्पः प्रतिबन्धात्मकः शब्दार्थस्तत्रास्ति। न हि परमार्थतः शब्दानामसौ गोचरः, तत्र सर्वविकल्पानामतीतत्वात; किन्तु यथैवाविचारितरमणीयतया लोके शब्दार्थः सिद्धः, तथैव भगवद्भिरपि समुपेक्षिततत्त्वार्थैर्गजनिमीलिकया परमार्थावताराय तद्भावनासंवृत्त्या प्रकाश्यते; उपायान्तराभावात्समारोपिताकारत्वेऽपि शब्दार्थस्य पारम्पर्येण वस्तुप्रतिबन्धात्तदधिगमे हेतुत्वमस्त्येवेति तथाविधं वस्तु तेषां सामर्थ्यात् प्रकाशितमेव भवतीति न विप्रलम्भसम्भवः। तत्रेदमुक्तं तायिना
"येन येन हि नाम्ना वै यो यो धर्मोऽभिलप्यते। नासौ संविद्यते तत्र धर्माणां सा हि धर्मता"।
(ल० सू० १०:५००) इति। अयं च शब्दार्थपरीक्षोपक्षेपः ॥ २॥
अथ किमयं तीर्थिकपरिकल्पितपदार्थवत् प्रतिपादकप्रमाणद्रविणदरिद्रतया वचनरचनामात्रसारः? आहोस्विदस्ति किञ्चिदस्य प्रतिपादयितृ प्रमाणम्? अस्तीत्याह-स्पष्टेत्यादि । स्पष्टं च तल्लक्षणं चेति विशेषणसमासः। स्पष्टत्वं च लक्षणस्यासम्भवाव्याप्त्यतिव्याप्ति१. परमाणुवर्तिनामित्यर्थः।
२. अत्र जै० पुस्तके 'स्वभावो यस्य' इत्यधिक: पाठः। ३. 'समपेक्षित०' इति गा० सम्पादकाभिमतः पाठः।