________________
११
अनुबन्धचतुष्टयनिरूपणम् अथापरिमितगुणगणाधारे भगवति किमिति प्रतीत्यसमुत्पाददेशनयैव स्तोत्राभिधानम्? तदेतदचोद्यम्; सर्वत्रैव तुल्यपर्यनुयोगत्वात्। न च शक्यमपरिमितगुणोद्भावनया पूजाभिधानं कर्तुमिति गुणैकदेशोद्भावनयैव सा विधेया। तेन प्रतीत्यसमुत्पाददेशनोद्भावनया वा सा विहिता, अन्यथा वेति न कश्चिद्विशेषः।
तथाप्युच्यते विशेषः । यथा हि-यथाभूतगुणसम्पद्योगाद्यभ्युदयनिःश्रेयस प्रापणतो जगतः शास्ता भवति भगवान्, स एवाभ्युदयनिःश्रेयसार्थिनां भगवच्छरणादिगमनहेतुरभिधानीयः। प्रतीत्यसमुत्पाददेशनया चाभ्युदयादिसम्प्रापको भगवान्। तथा हिअविपरीतप्रतीत्यसमुत्पाददेशनातस्तदर्थावधारणात् सुगतहेतुरविपरीतकर्मफलसम्बन्धादिसम्प्रत्यय उपजायते, पुद्गलधर्मनैरात्म्यावबोधश्च निःश्रेयसहेतुः श्रुतचिन्ताभावनाक्रमेणोत्पद्यते, तदुत्पत्तौ ह्यविद्या संसारहेतुर्निवर्त्तते, तन्निवृत्तौ च तन्मूलं सकलं क्लेशज्ञेयावरणं निवर्तत इति सकलावरणविगमादपवर्गसम्प्राप्तिर्भवति । तेन प्रतीत्यसमुत्पाददेशनाप्रधानमिदं भगवतः प्रवचनरत्नमित्यविपरीतप्रतीत्यसमुत्पादाभिधायित्वेन भगवतः स्तोत्राभिधानम् ॥ .. - स चायं प्रतीत्यसमुत्पादः परैर्विषमहेतुः प्रमाणव्याहृतपदार्थाधिकरणश्चेष्यते। अतस्तन्निरासेन यथावदेव भगवतोंक्त इति दर्शनार्थं वक्ष्यमाणसकलशास्त्रप्रतिपाद्यार्थतत्त्वोपक्षेपार्थं च बहूनां यथोक्तप्रतीत्यसमुत्पादविशेषणानामुपादानमिति समुदायार्थः॥
अवयवार्थस्तूच्यते
तत्र प्रकृतीशोभयात्मादिव्यापाररहितमित्यादौ सर्वत्र यः प्रतीत्यसमुत्पादं जगादेति सम्बन्धः। तत्र प्रकृतिः साङ्ख्यपरिकल्पितं सत्त्वरजस्तमोरूपं प्रधानम्, ईशः ईश्वरः, उभयम् एतदेव द्वयम्, आत्मा सृष्टिसंहारकारक एकः पुरुषस्तदन्यश्च संसारी, आदिग्रहणेन कालादिपरिग्रहः, तेषां व्यापार:=कारणभावः, तेन रहितम् तद्व्यापारशून्यमित्यर्थः । [G.11] तत्रेदमुक्तं भगवता-"स चायमङ्करो न स्वयंकृतो न परकृतो नोभयकृतो नेश्वरनिर्मितो न प्रकृतिसम्भूतो नैककारणाधीनो नाप्यहेतुसमुत्पन्नः" (शा० सू० १०२) इति । एतेन प्रधानेश्वरोभयाहेतुकशब्दब्रह्मात्मपरीक्षाणामुपक्षेपः।।
__ अथ स तमेवम्भूतं प्रतीत्यसमुत्पादं किमक्षणिकं जगाद? नेत्याह-चलमिति । चलम्= अस्थिरम्; क्षणिकमिति यावत्। अन्यस्य चलत्वायोगादिति भावः । तत्रेदमुक्तं भगवता
- "क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया। - भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते"॥ ( )इति। अयं च स्थिरभावपरीक्षोपक्षेपः।
यद्येवम्, कर्मफलसम्बन्धादिव्यवस्थायाः प्रतीत्यसमुत्पाद आश्रयो न प्राप्नोति, चलत्वात् ? इत्यत आह- कर्मेत्यादि। एतच्च पश्चात्प्रतिपादयिष्याम इति भावः। तत्र कर्मःशुभाशुभम्, तत्फलं चेष्टानिष्टम्, तयोः सम्बन्धो जन्यजनकभावलक्षणः, तस्य व्यवस्था संस्थितिः, व्यवहार इति यावत्। आदिशब्देन स्मृतिप्रत्यभिज्ञानसंशयनिश्चयस्वयंनिहितप्रत्यनुमार्गणदृष्टार्थकुतूहलविरमणकार्यकारणभावतदधिगन्तृप्रमाणबन्धमोक्षादिव्यवस्था१. ०सम्पद्योगादभ्यु०-पा०, गा० । २. प्रतीत्यसमुत्पादप्रधानमिदं-पा० गा०। ३-३. पा०, गा० पुस्तकयो स्ति।