________________
तत्त्वसंग्रहे [G.9] प्रणयनवैयर्थ्यं स्यात्, पूर्वाचार्यैरेव तत्त्वनिश्चयस्य कृतत्वात्। अतो विशेषतः परानुग्रहस्यापि भावात्, परार्थत्वाच्च शास्त्रस्य। तस्मात् पूर्वाचार्यैः प्रतिपादितान्यपि तत्त्वानि यो मन्दधीरतिविप्रकीर्णतया सुखमवधारयितुमशक्तः, तं प्रति सुखावधारणाय तत्त्वसंग्रह आरभ्यमाणो न विफलतामेष्यतीति मन्यमानः शास्त्रमिदमारभते। अत एव 'क्रियते तत्त्वसंग्रहः' इत्याह; अन्यथा 'क्रियते तत्त्वनिश्चयः' इत्येवमुक्तं स्यात्, एवं हि यथाविवक्षितार्थप्रतिपादनं स्फुटमेव कृतं भवेत्। तस्मात्तत्त्वसुखावबोध एव तत्त्वसंग्रहक्रियायाः फलम्। तस्यापि च सुखावबोधस्याचिरेणाभ्युदयनिःश्रेयसावाप्तिः प्रयोजनम्।।
__ तच्चातिप्रतीतमेवेति नोक्तम्: 'तत्त्वज्ञानादभ्युदयनिःश्रेयसावाप्तिर्भवति' इति सर्वास्तिकानां प्रसिद्धत्वात् । अथ वा- जगद्धितविधित्सयेत्येतस्योत्तरत्रानुवृत्तेस्तदपि दर्शितमेव । तथा हि-तदनुवृत्तौ 'जगद्धितविधित्सया तत्त्वसंग्रहः क्रियते' इति वाक्यार्थो जायते। जगद्धितविधित्सा च तत्त्वसंग्रहक्रियायाः कथं हेतुर्भवति, यदि जगद्धितविधानं तत्त्वसंग्रहक्रियायाः फलं स्यात् ! यथा पिपासया सलिलमानयतीत्यत्र सलिलपानं तदानयनक्रियायाः फलमिति गम्यते, तद्वदिहापि; ततश्च'जगद्धितविधानार्थं तत्त्वसंग्रहः क्रियते' इत्यर्थः सन्तिष्ठते। एतच्चानुगुणोपायमेव प्रयोजनमुपदर्शितम्। तथा हि-अभ्युदयनिःश्रेयसावाप्तिर्जगद्धितमुच्यते, तस्य चाविपर्यासो हेतुः; सर्वसंक्लेशस्य विपर्यासमूलत्वात्, संक्लेशविपरीतत्वाच्च जगद्धितस्य। अतस्तद्धेतुविपरीतोऽस्य हेतुरवतिष्ठते। अविपर्यासश्च यथावत्कर्मफलसम्बन्धाभिसम्प्रत्ययः, अविपरीतपुद्गलधर्मनैरात्म्यावबोधश्च । स चास्मादविपरीतप्रतीत्यसमुत्पादसम्प्रकाशकाच्छास्त्राच्छ्रवणचिन्ताभावनाक्रमेणोपजायत इत्यतोऽवगम्यत एव- 'तत्त्वसंग्रहक्रियातो जगद्धितमपि सम्पद्यते' इति । अभ्युदयनिःश्रेयसावाप्तौ च सत्यामभिमतार्थपरिसमाप्त्या पुरुषस्याकांक्षाविच्छेदादतो नापरमूर्ध्वं प्रयोजनं मृग्यमिति प्रयोजननिष्ठा।
सम्बन्धस्त्वभिधेयप्रयोजनाभ्यां न पृथगुपदर्शनीयः; निष्फलत्वात्। तथा हिसम्प्रदर्श्यमानः शास्त्रप्रयोजनयोः साध्यसाधनभावलक्षणो दर्शनीयः, नान्यो गुरुपर्वक्रियादिलक्षणः; तस्यार्थिप्रवृत्तेरनन्तत्वात्। स च साध्यसाधनभावः प्रयोजनाभिधानादेव दर्शितः। तथा हि 'इदमस्य प्रयोजनम्' इति दर्शयता दर्शितं भवति- 'इदमस्य साधनम्' इति। न हि यो यन्न साधयति तत्तस्य प्रयोजनं भवति; अतिप्रसङ्गात्। तस्मात्सामर्थ्य लभ्यत्वान्नासौ प्रयोजनाभिधेयाभ्यां पृथगभिधानीयः। स हि नाम तस्मात् पृथगुपादानमर्हति यो यस्मिन्न[G.10] भिहितेऽपि न गम्यते; यथाभिधेयप्रयोजनयोरन्यतराभिधानेऽपि नेतरावगतिर्भवति। न च सम्भवोऽस्ति, यत्प्रयोजनाभिधानेऽपि यथोक्तः सम्बन्धो नाभिहितः म्यादिति द्वे एवाभिधेयप्रयोजने वाच्ये।
एतच्चाभिधेयादि न वाक्यार्थतया विभक्तमस्माभिः, अपि तु वाक्यादवयवानपीद्धृत्य तदर्थतया। वाक्यार्थस्तु यथोक्तसंग्रहकरणमेव। यदा गुणीभूतस्याप्यभिधेयादेर्वाक्यादस्मात् प्रतीयमानत्वाद् वाक्यार्थत्वमविरुद्धमेव। प्राधान्येन हि वाक्यास्यानेकार्थाभिधानं विरुद्धम्, न तु गुणप्रधानभायेन। १. पा०गा० पुस्तकयो स्ति।