________________
अनुबन्धचतुष्टयनिरूपणम् वाक्यसमूहः, तत्कुतोऽस्याभिधेयसम्भवः? नैतदस्ति; यद्यपि वाक्यसमूहात्मकं शास्त्रम्, तथापि तानि वाक्यानि परस्परव्यपेक्षासम्बन्धावस्थितानि, अन्यथोन्मत्तादिवाक्यसमूहवदसङ्गतार्थमेव स्यात् । ततश्च परस्परसम्बद्धानेकशब्दसमूहात्मकत्वात् तदन्यवाक्यवद्वाक्यमेव शास्त्रम्। न हि पदैरेव वाक्यमारभ्यते, अपि तु वाक्यैरपि। अतो महावाक्यत्वादभिधेयवदेव शास्त्रमित्यचोद्यम्।
प्रयोजनं तु संग्रहशब्देन दर्शितम्। तथा हि-प्रयोजनमुपदर्श्यमानं शास्त्रेषु [G.8] प्रवृत्तिकामानां शास्त्रगतमेव तदुपदर्शनीयम्', नान्यगतम्, अन्यथा ह्यसङ्गताभिधानं स्यात् । उक्तञ्च-"शास्त्रेषु हि परं प्रवर्त्तयितुकामो वक्ता शास्त्रादौ प्रयोजनमभिधत्ते, न व्यसनितया" इति ( )। कथं च परः प्रयोजनोपदेशाच्छास्त्रेषु प्रवर्तितो भवति? यदि तद्गतमेव प्रयोजनमभिधीयते, नान्यगतम्; न हि अन्यगतप्रयोजनाभिधानादन्यत्र प्रेक्षावत: प्रवृत्तिर्भवेत् । विशिष्टार्थप्रतिपादनसमर्थं च वचनं शास्त्रमुच्यते, नाभिधेयमात्रम्, नापि शब्दमात्रमर्थप्रतिपादनसामर्थ्यशून्यम्; अतो नाभिधेयादिगतं प्रयोजनमुपदर्शनीयम्।
. यत्पुनराचार्येण "सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः" (न्या०बि० १.१) इति यत् प्रयोजनं निर्दिष्टम्; तत् प्रयोजनप्रयोजनस्य कथनम्, नाभिधेयस्य प्रयोजनम्; सम्यग्ज्ञानव्युत्पत्तेरेव सम्यग्ज्ञानशब्देन विवक्षितत्वात्। सम्यग्ज्ञानव्युत्पत्तिपूर्विकेत्यर्थः। एवं सति तन्निर्दिष्टमित्येतत्प्रयोजनाभिधानं सङ्गतार्थं भवेत्, अन्यथा दुःशिष्टमेव स्यात्।
- तच्च प्रयोजनं शास्त्रस्य त्रिविधम्-क्रियारूपम्, क्रियाफलम्, क्रियाफलस्य फलम्। तथा हि-शास्त्रस्य परप्रतिपादनायाऽऽरभ्यमाणस्य कारणत्वं वा भवेत्, कर्तृत्वं वा; कर्तृकरणयोश्च साधनत्वान्न यथोक्तप्रयोजनव्यतिरिक्तं प्रयोजनमस्ति, क्रियापेक्षत्वात् साधनस्य। त्रिविधस्यापि च क्रियादेस्तदविनाभावित्वात्तत्प्रयोजनत्वं युक्तमेव। साक्षात्पारम्पर्यकृतस्तु विशेषः। फलाख्यं तु प्रयोजनं प्रधानम्, तदर्थत्वात् क्रियारम्भस्य। तत्र सर्ववाक्यानां स्वाभिधेयप्रतिपादनलक्षणा क्रिया साधारणा, सा चातिप्रतीतया न प्रयोजनत्वेनोपदर्शनीया; तस्यां शास्त्रस्य व्यभिचाराभावात्। अनभिधेयत्वाशङ्काव्युदासार्थमुपदर्शनीयेति चेत् ? न; अभिधेयकथनादेव तदाशङ्काया व्युदस्तत्वात्। नाप्यभिधेयविशेषप्रतिपिपादयिषया तदुपदर्शनम्; अभिधेयविशेषकथनादेव तस्य प्रतिपादितत्वात्। तस्मादसाधारणा या क्रिया सोपदर्शनीया। सा त्वस्य शास्त्रस्य वियत एव तत्त्वसंग्रहलक्षणा; यतोऽनेन शास्त्रेण तेषां तत्त्वानामितस्ततो विप्रकीर्णानामेकत्र बुद्धौ विनिवेशलक्षणः संग्रहः क्रियते; अतस्तामेव संग्रहशब्देन दर्शितवान्।
___ अस्याश्च तत्त्वसंग्रहक्रियायाः "प्रतिपाद्यसन्तानगतस्तत्त्वसुखावबोधः फलम् । तदपि संग्रहशब्देन प्रकाशितमेव। एकत्र हि संक्षिप्तस्य तत्त्वस्य प्रतिपत्तुः सुखेनोद्ग्रहो जायते, दुःखेन तु विप्रकीर्णस्येति कृत्वा सुखोद्ग्रहकारणं संग्रहं संग्रहशब्देन प्रतिपादयंस्तत्त्वसुखावबोधार्थमिदमारभ्यत इति प्रकाशयति । न तु तत्त्वावबोधमात्रमस्य फलम्; एवं हि शास्त्रस्य १. उपदर्शनीयम्-पा०, गा०। . . २. पा० पुस्तके नास्ति। ३. अन्य (दपि) (गत?)-गा० । ४-४. अयं पाठ: सर्वेष्वपि पुस्तकेषु त्रुटित एव दृश्यते, अस्माभिस्तु भोटदेशीयानुवादस्य संस्कृतच्छायाऽत्र स्थापिता। ५. 'प्रतिपत्त' इति गा० संस्करणसम्पादकः । वस्तुतस्तु 'प्रतिपाद्य' इत्यस्य विनेयार्थत्वे सममिष्टमिति ध्येयम्।