________________
तत्त्वसंग्रहे [G.7] सार्थकमेव किं न भवेत् ! यथा विभक्तं प्राक् । तस्मात् 'श्रोतृजनप्रवृत्त्यर्थमेवाभिधेयादिकथनमिति स्थितम् न तु पुनः स्वार्थम्, ततः स्वयमप्रवृत्तेः; अन्यथोन्मत्तकप्रलापवदसम्बद्धमेव स्यात्।
यत्पुनरुक्तमाचार्येण न्यायबिन्दौ-"स्वयमप्येवं प्रतिपत्तिर्भवतीति स्वार्थानुमानेऽप्यस्याः प्रयोग:३" (न्या० बि० २.४४) इति, न तद्वहिर्भूतं प्रयोगमधिकृत्य, किं तर्हि ? अन्तर्जल्पात्मकमेव; स्वार्थानुमानस्य ज्ञानात्मकत्वात् । यच्च "प्रायः प्राकृतशक्ति:" (प्र० वा० १.२) इत्यादिकमुक्तम्', तदपि वक्रोक्त्या परेषामीादिमलोपहतचेतसां भाजनीकरणार्थमित्यलं बहुना॥ - शास्तृपूजाविधानं तु भगवति सर्वश्रेयोऽधिगतिहेतोः प्रसादस्योत्पादनार्थम्। तथा हिगुणगणाख्यानविधिनाऽमुना भगवतो माहात्म्यमुद्भाव्यते, तदुपश्रुत्य च श्रद्धानुसारिमनसां तावदसंशयं भगवति झगिति चित्तप्रसादः समुदेति। येऽपि प्रज्ञानुसारिणः, तेऽपि तथाविधेषु बाधमपश्यन्तः, प्रज्ञादीनां च गुणानामभ्यासात्प्रकर्षमवगच्छन्तो वक्ष्यमाणादप्यतीन्द्रियार्थदृक्साधकात्प्रमाणात् 'नूनं जगति सम्भाव्यन्त एंव तथाविधाः सूरयः' इत्यवधार्य भगवति प्रसादमुपजनयन्त्येव । तत्प्रसादाच्च तद्गुणास्तत्प्रवचनेषु तदाश्रिते च शास्त्रादौ परीक्षापुरःसरमुद्ग्रहणार्थमाद्रियन्ते, ततः श्रुतमय्यादिप्रज्ञोदयक्रमेण यावत्परं श्रेयोऽधिगच्छन्तीति महत्सु प्रसादः सर्वश्रेयोऽधिगतेः प्रधानं कारणम्। अत एव प्रायेण प्रसिद्धशास्तृकप्रवचनाश्रयेण प्रणीयमानेसु शास्त्रेषु शास्त्रकृतः शास्त्रस्यादौ तावत् स्वशास्तृपूजामेव विदधति; तस्यास्तत्प्रवृत्तावप्यङ्गभावस्य लेशतो विद्यमानत्वात् । अत एवोक्तम्-"शास्त्रं प्रणेतुकामः स्वशास्तुर्माहात्म्यज्ञापनार्थ तस्मै नमस्कारमारभते" इति (अ०को०भा० १.१)। अतो नानर्थकं शास्तृपूजाविधानमिति स्थितम्। . . . ____तत्र तं प्रणम्येत्येतत्पर्यन्तेन शास्तृपूजाविधानं निर्दिष्टम्। क्रियते तत्त्वसंग्रह इत्यनेनाभिधेयप्रयोजने प्राह।
तथा हि-अभिधेयमस्य शास्त्रस्य प्रकृत्यादिव्यापाररहितत्वादीनि प्रतीत्यसमुत्पादविशेषणानि तत्त्वानि । तानि च सामर्थ्यात् तत्त्वशब्देन दर्शितान्येव; अन्येषां तत्त्वार्थत्वानुपपत्तेः। ननु च वाक्यस्यैवाभिधेयवत्त्वं नान्यस्येति न्यायः, न च सकलं शास्त्रं वाक्यम्, अपि तु १. अत्र 'न' इति पदं जै०, पा० पुस्तकयोर्विद्यते।
२. आचार्येण-धर्मकीर्तिना। ३. 'प्रयोगदर्शनाभ्यासात् स्वयमप्येवं व्यवच्छेदप्रतीतिर्भवतीति स्वार्थेऽप्यनुमानेऽस्याः प्रयोगनिर्देश:'-इति
न्यायबिन्दुः (२.४४)। ४. 'प्राकृतसक्तिः' इति मनोरथनन्दिवृत्तिसम्मतः पाठः। ५. इत्थं तावदयं सम्पूर्णः शोक:
प्रायः प्राकृतसक्तिरप्रतिबलप्रज्ञो जनः केवलम्,
नानोव सुभाषितैः परिगतो विद्वेष्ट्यपीामलैः। तेनायं न परोपकार इति नश्चिन्तापि चेतश्चिरम्,
सक्ताभ्यासविवर्द्धितव्यसनमित्यत्रानुबद्धस्पहम् ॥ (प्र० वा १.२) '६. झटित्यर्थेऽयं कमलशीलसमयप्रयोगः । महाभारतेऽपि बहुत्र प्रयुक्तोऽयं शब्दः। . 'गणाख्यानपूर्वकम्' इत्यधिक: पाठो भाष्ये।