________________
अनुबन्धचतुष्टयनिरूपणम् वाक्योपजनितात् प्रयोजनविशेषविषयादत्यन्तपरोक्षार्थविषयागमोपजनितादिव संशयात् प्रवर्त्ततापीत्यतः प्रयोजनवाक्योपन्यासः।
अवश्यं चैतदेवं विज्ञेयम्, अन्यथाऽत्यन्तपरोक्षार्थविषयागमप्रणयनमपि व्यर्थं स्यात्; प्रागप्यागमप्रणयनाद्दानादिषु फलविशेषार्थिनां साधकबाधकप्रमाणाभावेन तत्संशयस्य विद्यमानत्वात्। किन्तु 'असावव्युत्पन्नस्वर्गादिफलानां नैवोत्पद्यते; तत्कारणभूतायाः फलविशेषार्थिताया असम्मुखीभावात्। येषां चोपजायते, तेषामपि सर्वत्रोपलादिभक्षणेऽपि प्रवृत्तिहेतुतया साधारणत्वादुपलादिभक्षणपरिहारेण न प्रतिनियतदानादिपरिग्रहहेतुर्भवतीति मत्वा तदर्थमागमप्रणेतृभिरागमः प्रणीयते, तद्वत्प्रयोजनवाक्यमपि शास्त्रकारैरित्य-[G.6] चोद्यमेतत्।
___न चापि जिज्ञासितप्रयोजनविशेषप्रतिपादकं शास्त्रान्तरमुपलब्धम्, येन तदुपलब्धिबलादभिमतप्रयोजनविशेषविषयः सन्देहो भवेत्। न ह्यभिमतप्रयोजनविशेषसाधने शास्त्रान्तरे सम्भवति कश्चित् प्रेक्षावान् परं शास्त्रान्तरमारभते; प्रेक्षावत्त्वहानिप्रसङ्गात्। अतो न शास्त्रान्तरोपलब्धिरपि विवक्षितप्रयोजनविशेषसन्देहहेतुर्भवति। तस्माच्छोतृजनप्रवृत्त्यर्थः प्रयोजनादिवाक्योपन्यास इति स्थितम्।
यस्तु मन्यते-'न श्रोतृजनप्रवृत्त्यर्थं प्रयोजनादिकथनम्, ततः संशयोत्पत्तेः, संशयेन तु प्रेक्षावतः प्रवृत्त्यसम्भवात्; किन्तु यत्प्रयोजनरहितमनर्थकं वा तन्नारब्धव्यम्, यथा काकदन्तपरीक्षोन्मत्तादिवाक्यम्; प्रयोजनरहितं चेदं शास्त्रम्, अतो न श्रोतुं कर्तुं वा प्रारब्धव्यमित्येवं व्यापकानुपलब्ध्या यः प्रत्यवतिष्ठते तस्य हेतोरसिद्धतोद्भावनार्थमादौ प्रयोजनादिवाक्योपन्यासः' इति, तदसम्यगिव लक्ष्यते; संशयेनापि प्रवृत्तेः प्रसाधितत्वात्, असिद्धतोद्भावनस्य च वैयर्थ्यात्। एवं हि तदर्थवद्भवेत्, यदि तस्य परस्यातो वक्यात् प्रवृत्तिर्भवेत्, यावतोद्भावितायामप्यनेन वाक्येनासिद्धतायां नातो वाक्यात् प्रेक्षावतो यथोक्तव्यापकात् तत्त्वनिश्चयः समुत्पद्यते, येनासौ प्रवर्तितो भवेत्। पूर्ववद्वाक्यस्यास्याप्रमाणत्वात्। संशयेन च प्रेक्षापूर्वकारिणो भवन्मतेन प्रवृत्त्यसम्भावात्। अतो विफलमेवासिद्धतोद्भावनम्। नापि कश्चित् प्रेक्षावानविदितशास्त्रशरीरोऽकस्माट्यापकाभावं निश्चित्यानेन प्रत्यवतिष्ठते। नापि तत्प्रत्यवस्थानात् स्वयं विदितशास्त्रप्रयोजनोऽपि शास्त्रकृन्नारभेत कर्तुम्, श्रोता वा प्रेक्षापूर्वकारी निर्निबन्धनाद्वाक्यानिवर्त्तते, येन तयोः प्रवृत्त्यर्थमसिद्धतोद्भावनं स्यात्।
__ अथापि स्याद्-योऽप्रेक्षापूर्वकारी सोऽनिबन्धनमकस्मादपि यथोक्तव्यापकाभावं गृह्णीयात्, परैश्च ग्राहयेदपि; अतस्तं प्रत्यसिद्धतोद्भावनं क्रियत इति? एतदप्ययुक्तम्। यदि तत्तेषां प्रवृत्त्यङ्गं शास्त्रेषु न भवति, तदा विफलमेव तं प्रत्यसिद्धतोद्भावनम्; अन्यथा
यतिप्रसङ्गः स्यात्। सन्ति हि बहुतरा असम्बद्धप्रलापिनः केचित्, तेषामप्ययुक्ताभिधायित्वप्रतिपादनाय बहुतरं शास्त्रप्रवृत्तावनुपयुज्यमानकमपि वक्तव्यमापद्येत । तस्मादवश्यमेव हेत्वसिद्धयोद्भावनं शास्त्रारम्भे मा भूद्विफलमतिप्रसङ्गो वेति श्रोतृजनप्रवृत्तिफलमेव वर्णनीयम्। ततश्च योऽपि व्यापकानुपलब्ध्या न प्रत्यवतिष्ठेत, न चाश्रुत्वा प्रयोजनं प्रवर्तेत, तं प्रत्यपि १. असौ-संशयः।
२. पा० पुस्तके नास्ति। ३. व्यापकाभावप्रत्यवस्थानादित्यर्थः।