________________
तत्त्वसंग्रहे यच्चाप्युक्तम्-'विवक्षायां यद्यपि प्रामाण्यम्' इत्यादि, तदप्यसारम्; यतो यथाविवक्षितमप्यर्थं शास्त्रेण परिसमापयन्त उपलभ्यन्ते; तद्वदिहापि कदाचिद्यथाप्रतिज्ञातार्थपरिसमाप्तिर्भविष्यतीति मत्त्वा प्रेक्षावतः प्रवृत्तिः केन वार्येत! न चाप्यसम्भवाशङ्कया' निवृत्तिर्युक्ता; अर्थसंशयेनापि प्रवृत्तेः । अन्यथा प्रमाणपूर्विकायामपि प्रवृत्तौ फलासम्भवाशङ्काया:२ सम्भवात् क्वचिदपि प्रवृत्तिर्न स्यात्। नाप्यनर्थावाप्तिशङ्का; शास्त्रादनिष्टफलावाप्त्यसम्भवात्। न चाप्यभिमतफलाप्राप्तिसम्भावनालक्षणानर्थावाप्तिशङ्केति युक्तं वक्तुम् तस्याः सर्वत्र प्रवृत्तौ तुल्यत्वात्।
यच्चोक्तम्-'योऽनधिगतशास्त्रप्रयोजनस्तं प्रति वाक्यमिदमारभ्यते' इति ? वयमप्येवं ब्रूमः; किन्तु यद्यपि प्रयोजनवाक्योपन्यासात् प्राक् तस्य संशयोऽस्ति, स तु प्रयोजनसामान्येकिमिदं प्रयोजनवद्? आहोस्विन्न? इति। न च प्रयोजनमात्रसन्देहात् प्रवृत्तियुक्ता; सर्वत्रैव प्रवृत्तिप्रसङ्गात्, प्रयोजनमात्रस्य चानर्थितत्वात्। किन्तु प्रतिनियतसाधनोपादानहेतोः प्रयोजनविशेषविषयकात्ने संशयात् प्रवृत्तिर्दृश्यते; क्वचिदेव साधनेऽर्थिनां प्रवृत्तेः, प्रयोजनविशेषस्य चाकांक्षितत्वात् । न चान्यः प्रयोजनवाक्यात् प्राक् प्रयोजमविशेषविषयसंशयोत्पत्तिहेतुः कश्चिदस्ति, येन शास्त्रान्तरपरिहारेण. प्रतिनियतशास्त्रपरिग्रहं कुर्वीत। [G.5] ननु प्रयोजनविशेषार्थितैव पुंसः प्रयोजनविशेषसंशयोत्पत्तिहेतुः प्राग्विद्यत एव, तथा हि-प्रयोजनविशेषाकांक्षापरिगतमनसः प्रथमतरमेवं भवत्येव-किमिदमस्मदधिगतप्रयोजनेन सप्रयोजनम् ? आहोस्विदन्येन? किं वा निष्प्रयोजनम् ? इति; तत्साधकबाधकप्रमाणाभावे तस्य न्यायप्राप्तत्वात्, प्रयोजनविशेषप्रतिपादकशास्त्रान्तरोपलब्धेश्च; अतो भवत्येव' प्रागपि प्रयोजनविशेषविषयसंशय इति व्यर्थः प्रयोजनवाक्योपन्यासः?
नैतदस्ति; यद्यपि प्रयोजनविशेषार्थितापि संशयविशेषहेतुर्भवति, तथापि न सा सर्वेषां सम्मुखीभवति; अव्युत्पन्नपुरुषार्थानां मूढधियां केषाञ्चिदसम्मुखीभावात्। तथा हि-मोक्षः परमपुरुषार्थतया सिद्धः, अथ च सन्ति केचिदव्युत्पन्ना ये तमपि परमपुरुषार्थं पुरुषार्थतया न जानन्ति, प्राग्ये न तं प्रार्थयिष्यन्ते ते। न वा सम्मुखीभूता प्रयोजनविशेषाकांक्षा प्रयोजनविशेषविषयसन्देहोत्पत्तिहेतुर्युक्ता; कारणसत्ताधीनत्वात् कार्याणाम्। यदि नाम सा केषाञ्चिदपि सम्मुखीभवति, तथाप्यसौ साधनान्तरपरित्यागेन प्रतिनियतसाधनोपादानहेतोः संशयविशेषस्य हेतुर्न भवति; सर्वत्र साधकबाधकप्रमाणाभावेन तस्यास्तद्धेतुत्वेन न्यायप्राप्तत्वात्। न चैतावन्मात्रेण प्रवृत्तियुक्ता; सर्वत्र प्रवृत्तिप्रसङ्गात् । न च शक्यं केनचित्सर्वत्र प्रवर्तितुमित्यतः फलविशेषार्थिनोऽपि प्रतिनियतसाधनपरिग्रहनिबन्धनाभावादुदासीरन्। तस्मात् प्रतिनियतसाधनपरिग्रहहेतुप्रयोजनविशेषविषयसंशयोत्पादनायात्यन्तपरोक्षार्थविषयागमप्रणयनवत् फलविशेषार्थिना प्रतिनियतसाधनपरिग्रहायाभिधानीयमेव प्रयोजनवाक्यम् । तथा हि-तेनास्यैव शास्त्रस्यार्थविशेष उपदर्शाते, नान्यस्य। अतोऽनेन प्रतिनियतसाधनसाध्यफलविशेषविषयः संशयो जन्यते । स च श्रोता 'कदाचिन्ममायमर्थविशेषो निष्पत्स्यते' इति प्रयोजन१. • वाशङ्काया:- जै०।
२. आशङ्काया इत्यर्थः। ३. ०विषयात्- गा० । ४. 'पगे ये' इत्युचितः पाठः।
५. आकांक्षेत्यर्थः। ६. आकांक्षायासंशयहेतुत्वेनेत्यर्थः।