________________
अनुबन्धचतुष्टयनिरूपणम् तदसम्यक्; यदर्थं हि यस्य प्रवृत्तिः सा तत्संशयेऽपि तस्य भवतीत्येतावदिह प्रकृतम्। न च कृषीवलादयः साधनार्थं तेषु प्रवर्त्तन्ते येन साधनविषयनिश्चयसद्भावान्निश्चयपूर्विका प्रवृत्तिरेषामुपवर्ण्यते, किं तर्हि ? फलार्थं ते तत्र प्रवर्त्तन्ते । तत्र च फले प्रतिबन्धादिसम्भवान्न निश्चयोऽस्तीत्यतः संशयपूर्विकैव तेषां प्रवृत्तिः । यापि चाऽऽद्यायां प्रवृत्तौ साधननिश्चयार्था प्रवृत्तिरेषाम्, तत्रापि न साधननिश्चयः; तदर्थत्वादेव प्रवृत्तेः।
अपि च–साधननिश्चयोऽपि तेषां भाविफलापेक्षया भवन्नवश्यमेतदनागतमेवंविधं फलं साधयिष्यतीत्येवंरूपो भवेत्, यद्वा प्रतिबन्धकसहकारिवैकल्ययोरसम्भवे सत्यवश्यभिमतफलसम्पादनायालमेतदित्येवंरूपः । न तत्र तावदाद्यो युक्तरूपः; सम्भवत्सहकारिवैकल्यप्रतिबन्धकोपनिपातस्य कस्यचिदुपलब्धतथाविधफलस्यापि शाल्यादेरनागतफलं प्रत्यसाधनत्वदर्शनेन सर्वत्राऽऽशङ्काया अव्यावृत्तेः । यदाह
"सामग्रीफलशक्तीनां परिणामानुबन्धिनि। अनैकान्तिकता कार्ये प्रतिबन्धस्यसम्भवात्"।
. (प्र० वा० ३. ८) इति। अथ द्वितीयः, तदा युक्ततरमेतत्; एवंरूपत्वादेव सर्वस्याः प्रमाणपूर्विकायाः प्रवृत्तेः । अत एव चाचार्याः तत्र योग्यतानुमानेन विशेषणं विदधति-असति प्रतिबन्धे योग्यमेतदिति। किन्तु फलमप्यनेन रूपेण निश्चितमेवेति न साधनस्यैव निश्चयः । न चाप्येवंप्रवृत्तौ परमार्थतः फलनिश्चयपूर्विका प्रवृत्तिः सिध्यति; प्रतिबन्धाद्यसत्त्वस्यैव "अपरदर्शनैर्निश्चेतुमशक्यत्वात्। .
स्यादेतत्-यद्यपि परमार्थतः प्रतिबन्धाभावो निश्चेतुमशक्यः, तथापि यदि प्रतिबन्धो न स्यात्, तुदावश्यमस्मात् फलप्राप्तिर्नियमेन-इत्येवंविधो निश्चयः प्रमाणपूर्विकायां प्रवृत्ती विद्यत एव, न त्वप्रमाणपूर्विकायाम्; अन्यथा प्रमाणाप्रमाणपूर्विकयोः प्रवृत्त्योर्विशेषो न स्यात्; स च तथाविधोऽपि निश्चयो वाक्यान्न सम्भवत्येव; बाह्येऽर्थे तत्र तस्याप्रतिबन्धेनाप्रमाणत्वादिति ? सत्यमेवैतत्; किन्तु यदि वाक्यान कस्यचित्प्रेक्षावतः प्रवृत्तिरस्तीत्येतत्सिद्धं [G.4] भवेत्, तदा सर्वमेवैतत्स्यात्; यावता दृश्यन्ते हि केचिदप्रत्यक्षफलानां केषाञ्चित्प्रवृत्तिनिवृत्त्योर्महाशंसापायश्रवणादनाश्रित्यागमप्रामाण्यमासितुमशक्नुवन्तो वचनात् प्रवर्त्तमानाः । न चैतावता तेषां प्रेक्षावत्ताहानिः, अभ्युपायेनैव प्रवृत्तेः; न ह्यागमादृतेऽत्यन्तपरोक्षार्थविषये प्रवृत्तावन्योऽभ्युपायोऽस्ति । अवश्यं च प्रवर्तितव्यं त्वागमात, व्याहतागमपरिग्रहं हि कुर्वाणा अप्रेक्षापूर्वकारिणः स्युः । अव्याहतागमसमाश्रयेण तु प्रवृत्तौ कथं न प्रेक्षावन्तो भवेयुः, तस्यैव सम्यगुपायत्वात् ! न चागमस्य पुरुषतिशयप्रणीततया यथार्थत्वमवधार्य तत्र निश्चयादेव प्रवर्त्तन्त इति युक्तं वक्तुम्; पुरुषातिशयस्यैवापरदर्शनैर्निश्चेतुमशक्यत्वात्। न चागमान प्रवर्त्तन्ते प्रेक्षावन्तोऽपि, तद्वदिहापि अव्याहतप्रयोजनादिवाक्यश्रवणाच्छास्त्रेषु प्रवर्त्तमानाः प्रेक्षापूर्वकारिणो भविष्यन्ति; उपायेनैव प्रवृत्तेः । न ह्यत्रापि प्रवृत्तावभ्युपायान्तरमस्ति; शास्त्रार्थस्य प्राक्प्रवृत्तेरत्यन्तपरोक्षत्वात्। १. साधननिश्चयार्थमित्यर्थः। २. बीजादिषु। ३. एषाम् कृषीवलादीनाम्। धर्मकीर्तिपादा इत्यर्थः।
५. अर्वाग्दर्शनंरित्यर्थः। ६. आशंसा-संम्तवः।