________________
तत्त्वसंग्रहे श्रोतुः प्रवृत्त्यर्थं स्वशास्तृपूजाविधिपूर्वकमस्य शास्त्रस्य प्रकृतीत्यादिभिः श्लोकैः तत्त्वसंग्रह इत्येतत्पर्यन्तैरभिधेयप्रयोजने प्राह । • तथा हि-यद्यभिधेयमस्य न कथ्येत, तदोन्मत्तादिवाक्यवदानर्थक्यं सम्भावयन् । प्रेक्षावान्न प्रवर्तेतापि श्रोतुमित्यभिधेयमस्यावश्यवचनीयम् । तथा सत्यभिधेये काकदन्तादिपरीक्षाशास्त्रवदभिमतप्रयोजनरहितं शास्त्रं प्रेक्षावन्तः श्रोतुमपि नाद्रियन्त इति ततस्तत्प्रवृत्त्यर्थमादौ प्रयोजनमभिधानीयम्। प्राधान्येन तु प्रयोजनमेव प्रवृत्त्यङ्गम् तदर्थितयैव शास्त्रेषु श्रोतृजनस्य प्रवृत्तेः। तच्चाभिधेयशून्येन शास्त्रेणाशक्यं सम्पादयितुमिति शास्त्रस्य प्रयोजनोपायतासन्दर्शनार्थमभिधेयकथनम्। तच्च प्रयोजनमनुगुणोपायमुपदर्शनीयम्, न पुनरशक्यतत्साधनानुष्ठानम्; अन्यथा विषहरतक्षकचूडारत्नालङ्कारोपदेशशास्त्रवत् सत्यपि प्रयोजने तत्साधनानुष्ठानाशक्यतां मत्वा न प्रवर्तेत प्रेक्षावान्। अत एवोक्तम्
"सम्बद्धानुगुणोपायं पुरुषार्थाभिधायकम्। ___ परीक्षाऽधिकृतं वाक्यमतोऽनधिकृतं परम्"॥ इति। '
(प्र० वा०, ३-२१५) तस्माच्छास्त्रेषु प्रवृत्त्यर्थमभिधेयादिकथनम्। ननु प्रेक्षावतां प्रवृत्तिर्निश्चयादेव, निश्चयश्च प्रमाणादेव, न चास्य प्रयोजनवाक्यस्यात्राभिधेयादौ. बाह्येऽर्थे प्रामाण्यमस्ति; तत्रास्य प्रतिबन्धाभावात्। तथा हि-न तावत्तादात्म्यलक्षणः प्रतिबन्धः; अत्यन्तभेदात्। नापि तदुत्पत्तिलक्षणः; इच्छामात्रप्रतिबद्धत्वाद् वाक्यस्य। न चाप्रतिबद्धात् वाक्याज्जिज्ञासितेऽर्थे ज्ञानमुत्पद्यमानं प्रमाणं युक्तम्; अतिप्रसङ्गात्। विवक्षायां च यद्यपि प्रामाण्यं वाक्यस्य, तथापि न तत्प्रेक्षावतः प्रवृत्त्यङ्गम्। न हि ये यथा विवक्षन्ति ते तथैवानुष्ठानकाले कुर्वन्ति; विसंवादनाभिप्रायस्य अन्यथा प्रतिज्ञायाऽप्यन्यथा शास्त्ररचनासम्भवात्। अपि च यः प्रमाणान्तरादधिगतशास्त्रप्रयोजनः, तं प्रति प्रयोजनवाक्योपन्यासोऽनर्थक एव; तस्य प्रमाणान्तरादेव प्रवृत्तत्वात् । यश्चापि प्रमाणन्तरेण बाधितशास्त्रप्रयोजनः,.तं प्रति सुतरामनर्थक एव; तस्य प्रमाणान्तरेण बाधितत्वादेव प्रवृत्त्यसम्भवात्। एतच्च द्वयमभ्युपगम्योच्यते; न तु किञ्चिदर्वाग्दृशां प्राक्प्रवृत्तेः प्रयोजनादिसाधकं तद्बाधकं वा प्रमाणमस्ति, येनामी तत्सद[G.3] सत्तामवगच्छेयुः; तस्याः प्रवृत्तिसमधिगम्यत्वात्। किन्तु योऽनधिगतशास्त्रप्रयोजनादिस्तं प्रति वाक्यमिदमारभ्यते। तस्य च प्रेक्षावतः संशय एव वाक्यतोऽस्मादुपजायते, न निश्चयः; अप्रमाणत्वात्। स च संशयः प्रागपि वाक्योपन्यासादस्तीति व्यर्थ: प्रयोजनादिवाक्योपन्यासः?
तदत्राभिधीयते-यत्तावदुक्तम्-'निश्चयेनैव प्रेक्षावतां प्रवृत्तिः' इति, तदसत्;, संशयेनापि प्रवृत्तिदर्शनात्, यथा कृषीवलादीनाम्। स्यादेतत्-यद्यपि कृषीवलादेर्भाविनि फले संशयस्तथापि तत्फलसाधननिश्चयस्तेषां विद्यत एव, तेन निश्चयपूर्विकैव तेषां प्रवृत्तिरिति ? १. सम्बन्धानु०- इत्यपि पाठः। २. परीक्षाऽविकृतं-गा। ३. ०मतो न विकृतं- गा० । ४. प्रतिबन्धो (द्धो?)-गा०। ५.विसंवादना (द) भिप्रायस्य-गा० । ६. तेषां प्रयोजनादीनां सत्तामसनां वावगच्छेयरित्यर्थः।
७. सदसत्ताया इत्यर्थः।