SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ नमो बुद्धाय .. आचार्यश्रीशान्तरक्षितविरचितः तत्वसग्रहः - मङ्गलमुखेनानुबन्धचतुष्टयनिरूपणम् प्रकृतीशोभयात्मादिव्यापाररहितं चलम्। [G.1] कर्मतत्फलसम्बन्धव्यवस्थादिसमाश्रयम् ॥१॥ गुणद्रव्यक्रियाजातिसभवायाधुपाधिभिः । शून्यमारोपितांकारशब्दप्रत्ययगोचरम् ॥२॥ स्पष्टलक्षणसंयुक्तप्रमाद्वितयनिश्चितम् । अणीयसाऽपि नांशेन मिश्रीभूतापरात्मकम्॥३॥ असंक्रान्तिमनाद्यन्तं प्रतिबिम्बादिसन्निभम्। सर्वप्रपञ्चसन्दोहनिर्मुक्तमगतं. परैः॥४॥ स्वतन्त्र श्रुतिनिःसङ्गो जगद्धितविधित्सया।। अनल्पकल्पासङ्ख्येयसात्मीभूतमहादयः ॥५॥ यः प्रतीत्यसमुत्पादं जगाद गदताम्वरः। तं सर्वशं प्रणम्यायं क्रियते तत्त्वसंग्रहः ॥६॥ . :. . नमो वीतरागाय : आचार्यकमलशीलकृता पञ्जिका ज्ञेयाम्भोनिधिमन्थनादधिगतैस्तत्त्वामृतैर्यो जग 'जातिव्याधिजरादिदुःखशमनैः कारुण्यतोऽतर्पयत्। तस्मै तत्त्वविदाम्वराय जगतः शास्त्रे प्रणम्यादरात्, .. तत्त्वानामिह संग्रहे स्फुटतरा प्रारभ्यते पञ्जिका ॥१॥ वक्तुं वस्तु न मादृशा जडधियोऽपूर्वं कदाचित्क्षमाः', क्षुण्णो वा बहुधा बुधैरहरहः कोऽसौ न पन्थाः क्वचित्। किन्तु स्वार्थपरस्य मे मतिरियं पुण्योदयाकांक्षिणः, . तत्त्वाभ्यासमिमं शुभोदयफलं कर्तुं समभ्युद्यता ॥ २॥ [G.2] इह हि शास्त्रे प्रेक्षावतामभिधेयप्रयोजनावसायपूर्विका प्रवृत्तिर्महत्सु च प्रसादः सर्वश्रेयोऽधिगते: कारणं प्रथममित्यालोच्य भगवति प्रसादोत्पादनार्थम्, शास्त्रे चास्मिन्नादरेण १. कदापि क्षमा:- गा० । २. क्षुल्लो -जै०।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy