________________
४१३
प्रमाणान्तरभावपरीक्षा
७. ऐतिह्यादिविचारः ऐतिह्यप्रतिभादीनां भूयसा व्यभिचारिता।
नैवेदृशां प्रमाणत्वं घटतेऽतिप्रसङ्गतः ॥१६९९॥ अन्ये त्वैतिह्यादि च प्रमान्तरमिच्छन्ति, तत्रानिर्दिष्टवक्तृकं प्रवादपारम्पर्यम् ऐतिह्यम्। यथा-'इह वटे यक्षः प्रतिवसति' इति। अनियतदेशकालमाकस्मिकं सदसत्सूचकं ज्ञानम्=प्रतिभा। यथा-कुमार्या एवं भवति–'अद्य मे भ्राता आगमिष्यति' इति, तच्च किल तथैव भवतीति प्रमाणम्। अत्र दूषणमाह-ऐतिह्येत्यादि । आदिशब्देन प्रत्यभिज्ञादीनां ग्रहणम्; तेषामपि परैः कैश्चित् प्रमाणत्वेन गृहीतत्वात्। अतिप्रसङ्गतइति। स्वप्रान्तिकस्यापि कदाचित् सत्यतादर्शनात् प्रमाणन्तरत्वं स्यात् ॥ १६९९ ॥
. इत्यैतिह्यादिविचारः ॥
अथ वाऽस्थान एवायमायासः क्रियते यतः।
प्रत्यक्षश्च परोक्षश्च द्विधैवार्थो व्यवस्थितः ॥१७००॥ [G.485] एवं विस्तरेण प्रमाणान्तरं निराकृत्य संक्षेपेण निराकुर्वनाह-अथ वेत्यादि। द्विविध एव ह्यर्थः-प्रत्यक्षः, परोक्षश्च ॥ १७०० ॥ ननु चापरोऽप्यस्ति प्रत्यक्ष:-नैव प्रत्यक्षः, नाप्यप्रत्यक्षः? इत्याह. उभयानुभयात्मा हि नैवार्थो युज्यते परः।
एकस्यैकत्र विज्ञाने व्याहते हि क्रियाक्रिये ॥१७०१॥
साक्षाद्धि ज्ञानजनकः प्रत्यक्षो ह्यर्थ उच्यते। . यथोक्तविपरीतस्तु परोक्षः कृतिभिर्मतः ॥१७०२॥ • आद्यार्थविषयं तावन्नेदं शाब्दोपमादिकम्। . प्रत्यक्षेऽन्तर्गतिप्राप्तेर्वैफल्यं वा स्मृतेरिव ॥१७०३॥
परोक्षविषयत्वेऽपि स तेषां विषयः कथम् । .. 'यदि साक्षात् परोक्षोऽयं न स्यात् प्रत्यक्षवस्तुवत् ॥१७०४॥ 'परव्यपाश्रयेणापि प्रतिपत्तौ किमस्य सा। सम्बन्धात् परतो नो वा भेदाभासा न वा तथा ॥१७०५॥ असम्बद्धात् तदुद्भूतावव्यवस्था प्रसज्यते।
न च सङ्गच्छते व्याप्तिर्भेदाभासा भवेद् यदि ॥१७०६॥ न ह्येकस्यान्योऽन्यप्रत्यनीकानेकधर्मसम्पातो युक्तः; एकत्वहानिप्रसङ्गात्। विशिष्टस्याव्यवधानेन यथागृहीतार्थावसायकारणस्य ज्ञानस्य साक्षाल्लिङ्गादिव्यवधानं विना जनकोऽर्थः १. पा०, गा० पुस्तकयो स्ति।
२. नैवासौ-पा०, गा०। ३-३. सर्वेषां-पा०, गा०।
४-४. सम्बद्धतरतो-पा०, गा० ।