________________
तत्त्वसंग्रहे
दृश्यादृष्टिं विहायान्या नास्तिता न प्रतीयते ॥ १६९६ ॥
युक्तौ तावन्न साध्यसाधनयोर्भेद:, तथा हि-तद्भावभाविता हेतु:, कार्यकारणता साध्या। न चानयोर्भेद उपलभ्यते; पर्यायत्वात् तरुपादपवत् । अनुपलब्धावपि च न भेदः । तथा हि-यद्युपलम्भनिवृत्तिमात्रं विवक्षितम्, तदा तस्यासिद्धत्वात् पूर्ववदनवस्थादिदोषो वाच्यः । अथान्योपलब्धिरेवानुपलब्धिः, तदा दृश्यानुपलब्धावेवान्तर्भावः । अनया च नाभावः साध्यते; तस्य प्रत्यक्षेणैव सिद्धत्वात् । अत एवाह - दृश्यादृष्टिं विहायेत्यादि ॥ १६९६ ॥ अथ मतम्-नाभ्यां कार्यकारणताऽभावौ साध्येते, किं तर्हि ? तद्व्यवहार' इति ?
४१२
तत्राह
तद्भावव्यवहारे तु योग्यतायाः प्रसाधने ।
सङ्केतकाले विज्ञातो विद्यतेऽर्थो निदर्शनम् ॥ १६९७॥
तयोर्हेतुफलताभावयोर्भावस्तद्भावः, तत्र व्यवहारो यः स तद्भावव्यवहारः । ज्ञानाभिधानप्रवृत्तिलक्षणमनुष्ठानम्, तस्मिन् योग्यता साध्यते मूढं प्रति । यथा प्रयोगश्च -ये यद्व्यापारान्तरनियतोपलभ्यस्वभावास्ते तत्कार्यव्यवहारयोग्याः, तद्यथा - सङ्केतकालानुभूताः कुलालादिव्यापारानन्तरोपलभ्यस्वभावा घटादयः । तथा च ताल्वादिव्यापारानन्तरनियतोपलभ्यस्वभावाः शब्दा इति स्वभावहेतुः । तथानुपलब्धावपि व्यवहारे साध्ये प्रयोगःयेषामुपलब्धिलक्षणप्राप्ताभिमतानां येष्वनुपलब्धिस्ते तदभावव्यवहारयोग्याः, शशमस्तकादयः। उपलब्धिलक्षणप्राप्ताभिमतानां [G.484] ́ पराभिमतसामान्यादिपदार्थानामनुपलब्धिश्च तदाश्रयत्वेनेष्टेषु शाबलेयादिष्विति स्वभावानुपलब्धिः । तद्विविक्तानां शाबलेयादीनामुपलम्भान्नासिद्धिः । नाप्यनैकान्तिकता; हेतोरभिव्यक्तेर्निराकारिष्यमाणत्वात् एतावन्मात्रनिबन्धनत्वाच्चाभावव्यवहृतेः । नापि विरुद्धता; सपक्षे भावादिति ॥ १६९७ ॥
इति युक्त्यनुपलब्धिविचारः ॥
६. सम्भवविचारः
तत्र सम्भवश्च लक्षणया समुदायः । सम्भवप्रतिपत्तौ समुदायिप्रतिपत्तिः । यथासहस्रसद्भावे ज्ञाते शतादिसत्ताप्रतिपत्तिः । इदं च किल दृष्टान्ताभावान्नानुमानम्।
अत्र दूषणमाह
समुदायव्यवस्थाया हेतवः समुदायिनः ।
शतादिसम्भवज्ञानं सहस्रात् कार्यलिङ्गजम् ॥१६९८ ॥
यस्मात् समुदायिभ्योऽन्यस्य समुदायस्याभावात् समुदायव्यवस्थायाः समुदायिन एव कारणम्; तस्मात् सहस्राच्छतादिसम्भवप्रतीतिः कार्यलिङ्गजैव ॥ १६९८ ॥
इति सम्भवविचारः ॥
१. व्यवहार- पा०, गा० ।
३. शशशमस्त०
पा०, गा० ।
२-२. पा०, गा० पुस्तकयोर्नास्ति । ४-४. पा०, गा० पुस्तकयोर्नास्ति ।