________________
प्रमाणान्तरभावपरीक्षा
४११
किं तर्हि ? ' क्वचिद्देशादौ घटादि नास्ति ' - इत्यनेन रूपेण सविशेषणमेव । तच्च केवलस्यैव देशादेर्ग्रहणसामर्थ्यादेवं भवतीति न पृथगस्य प्रामाण्यम्; प्रत्यक्षगृहीतस्यैव केवलस्य देशादेस्तथा विकल्पनात् । सत्यपि वा निर्विशेषणस्याभावस्य ग्रहणे न तद्ग्राहिणो ज्ञानस्य प्रामाण्यं युक्तम्; वस्तुविषयत्वात् । अर्थक्रियार्थिनां च प्रमाणचिन्ताया वस्त्वधिष्ठानत्वादिति यत्किञ्चिदेतत् ॥ १६९० ॥
इत्यभावविचारः ॥
५. युक्त्यनुपलब्धिविचारः
युक्त्यनुपलब्धी अधिकृत्याह
अस्मिन् सति भवत्येव न भवत्यसतीति च । तस्मादतो भवत्येव, युक्तिरेषाऽभिधीयते ॥ १६९१॥ प्रमाणान्तरमेवेयमित्याह चरको मुनिः ।
नानुमानमियं यस्माद् दृष्टान्तोऽत्र न लभ्यते ॥ १६९२॥ उपलब्ध्या यया योऽर्थो ज्ञायते तदभावतः । नास्तित्वं गम्यते तस्यानुपलब्धिरियं मतः ॥ १६९३॥ प्रमाणान्तरमेषापि दृष्टान्ताद्यनपेक्षणात् ।
दृष्टान्तेऽपि हि नास्तित्वमनयैव प्रसिध्यति ॥ १६९४॥ तद्भावभावित्वेन यत्कार्यताप्रतिपत्तिरियं युक्तिः । इयं च सविकल्पकत्वान्न प्रत्यक्षम् । नाप्यनुमानम्; दृष्टान्ताभावात् । तथा हि- 'दृष्टान्तेऽपि अत एव तद्भावभावित्वात् तत्कार्यताप्रतिपत्तिः, तत्रापि दृष्टान्तोऽन्वेषणीयस्तत्राप्यपरः - इत्यनवस्था स्यात्, तस्मात् प्रमाणान्तरमेवेयमित्याह चरको वैद्यः । तथा या चोपलब्धिनिवृत्त्या नास्तित्वप्रतीतिरियमनुपलब्धिः । अस्या अपि प्रमाणान्तरत्वे युक्तवदेव न्यायो घोषणीयः ॥ १६९१-१६९४॥
कार्येत्यादिना प्रतिविधत्ते
कार्यकारणताभावप्रतिपत्तिर्न
संयता ।
तदत्रास्यां न भेदोऽस्ति साध्यसाधनयोर्यतः ॥ १६९५ ॥
[G.483] 'कार्यकारणता 'चाभावश्चेति कार्यकारणताभावौ तयोः प्रतिपत्तिरिति विगृह्य... समासः । तत्र कार्यकारणताप्रतिपत्तिर्युक्त्या, अभावप्रतिपत्तिरनुपलब्ध्येति यथाक्रमं सम्बन्धः । अस्यामिति । युक्तावनुपलब्धौ च प्रमाद्वयेऽपि न साध्यसाधनयोर्भेदः ॥ १६९५ ॥
कथम् ? इत्याह
१. इत्यभाव:- जै० /
४. दृष्टान्तो०- पा०, गा० ।
तद्भावभावितां मुक्त्वा न हेतुफलताऽपरा ।
२. चरकमुनिरिति शेष: ।
५. ०ऽन्वेषणीय:- पा०, गा० ।
३- ३. यत्कार्यता०- पा०, गा० ।
६- ६.० कारणभावोऽभावश्च- पा०, गा० ।