________________
४१०
तत्त्वसंग्रहे सर्वशब्दविवेकोऽपि कार्यादृष्टेः प्रतीयते।
सा च सिद्धा ततोऽन्येषां विज्ञानानां स्ववेदनात्॥१६८८॥ [G.481] राशेरिति । संवित्ताविति सम्बन्धः; यस्मात् तमेव प्रकाशतमसो राशिमाकाशमिति प्रतिपत्ता प्रतिपद्यते, नान्यत्। तथा हि-दिवा निशि वेदमिन्द्रनीलसङ्काशमाकांशमिदं जलधरनिकासमिति' वा प्रतिपदयते। न चाकाशस्य परिकल्पितस्य वर्णसंस्थानादिरस्ति। ततोऽन्यस्येति । प्रकाशतमोराशिव्यतिरेकेण परपरिकल्पितस्याकाशस्यासत्त्वात्। सत्त्वे वाऽतीन्द्रियत्वात्। सर्वशब्दविवेकोऽपि श्रोत्रज्ञानस्य कार्यस्यानुपलब्ध्या गम्यते। सा चानुपलब्धिरन्येषां चक्षुरादिज्ञानानां संवेदनात् सिद्धेत्यस्त्येवात्राप्येकोपलम्भोऽन्यविज्ञानसंवेदनलक्षणः । ननु न हि कार्यसत्तया कारणसत्ता व्याप्ता, येन सा कार्यसत्ता निवर्तमाना तामपि निवर्तयेत्; यतो नावश्यं कारणानि तद्वन्ति भवन्ति? न ब्रूमः- सर्वा कारणसत्ता कार्यसत्तया व्याप्तेति, किं तर्हि ? विशिष्टैवाऽप्रतिबद्धसामर्थ्यलक्षणा, तस्या एवात्र निषेधः क्रियते, न सर्वस्याः। तथा हि-यत्रापि केवलप्रदेशोपलम्भाद् घटाभावसिद्धिः, सापि घटोपलम्भाख्यकार्यानुपलब्धिरेव; यत उपलब्धिलक्षणप्राप्तस्यैव घटस्याभावः साध्यते, न सर्वस्य। कश्चोपलब्धिलक्षणप्राप्तः? य एवाप्रतिबद्धसामर्थ्यः; यत उपलब्धिलक्षणं स्वभावविशेषो वर्णितः यः स्वभाव: स प्रत्यक्ष एव भवतीति । अन्यथा ह्यत्रापि घटोपलंब्ध्या घटसत्ता न व्याप्ता स्यात्, ततश्चाव्याकस्य निवृत्तौ नाव्याप्तस्य निवृत्तिरिति ततो घटाभावो न सिध्येत्। तस्मात् सर्वैव स्वभावानुपलब्धिरसद्व्यवहारहेतुः परमार्थतः। कार्यानुपलब्धिरेव द्रष्टव्या॥१६८७-१६८८॥
इत्थमित्यादिना अभावशब्दवाच्यत्वात्' (तत्त्व० १६५७) इत्यस्य हेतोरनैकान्तिकत्वमाह
इत्थं च वस्तुरूपत्वे स्थितेऽभावप्रमात्मनः।।
अभावशब्दवाच्यत्वमन्तर्भावेऽप्यबाधितम्॥१६८९॥ "एकस्य या दृष्टिः सैवान्या दृष्टिरुच्यते" (तत्त्व० १६८२) इत्यादिना। अन्तर्भावेऽप्य बाधितमिति । अभावस्य प्रत्यक्षान्तर्भावेऽप्यभावशब्दवाच्यत्वमविरुद्धमित्यर्थः । एतेन हेतोविपक्षादव्यावृत्तिमाह ॥ १६८९ ॥
अभावो वा प्रमाणेन स्वानुरूपेण मीयते।
इत्यत्र सिद्धसाध्यत्वं तादृश्यस्त्यनुरूपता ॥१६९० ॥ [G.482] तादृश्यस्त्यनुरूपते । अन्योपलब्धिलक्षणानुपलब्धिरभावः ।
यच्चाप्येके चोदयन्ति-ननु वस्त्वभावमात्रालम्बनस्य प्रत्यक्षादौ न क्वचिदन्तर्भावोऽस्ति, वस्तुविरहमात्रालम्बनत्वादस्य, प्रत्यक्षादेश्च वस्तुविषयत्वात्; न चास्याप्रामाण्यम्; अविसंवादित्वात्, न हि भवद्भिर्वस्तूनां निरन्वयं विनाशमिच्छद्भिर्वस्तुविरहो नेष्यत इति? तदप्यनेन प्रत्युक्तम्; न हि तेन विकल्पेन तद्देशकालादिविशेषणरहितंभावमात्रमालम्ब्यते। १. निकाशमिति-पा०, गा०। २. वर्द्धति-पा०: अर्थनन्ति-गा।
३. स-पा०, गा०॥ ४. ०रभाव इति-गा०/
५. विकल्पे-पा०।