________________
४१४
तत्त्वसंग्रहे प्रत्यक्ष उच्यते। एवं च कृत्वा 'क्षणिकः शब्दः' इत्यादि ज्ञानमप्रत्यक्षार्थमिति सिद्धम्। न चैकस्य पदार्थस्यैकत्र क्रियाक्रिये युक्ते, येन विज्ञानजनकत्वाजनकत्वाभ्यां प्रत्यक्षाप्रत्यक्षस्वभावो भवेत्। नाप्यनुभयस्वभावो युक्तः; एकस्वभावनिषेधस्यापरस्वभावविधिनान्तरीयकत्वाद् वस्तुनः । अनेकस्य तु नैकत्र [G.486] क्रियाक्रियाविरोधः, यथा-रूपरसयोश्चक्षुर्विज्ञाने। तथैकस्यानेकस्मिन्, यथा-रूपस्य चक्षुःश्रोत्रविज्ञानयोः, तदर्थमेकस्यैकत्रेति चाह । तस्माद् द्विविध एवार्थः।
तत्र शब्दादीनां प्रामाण्यं भवत्प्रत्यक्षे वार्थे भवेत्, परोक्षे वेति पक्षद्वयम्। न तावदाद्येऽर्थे, कस्मात् ? प्रत्यक्षेऽन्तर्गतिप्राप्तेः; शाब्दादीनामभिन्नार्थविषयत्वात्। अथ प्रत्यक्षेणाधिगते सत्युत्तरकालं तैः पुनरधिगमः क्रियते, अत आह-वैफल्यं वा। गृहीतग्रहणात् स्मृतिवदप्रमाण्यप्रसङ्गात् । द्वितीयेऽपि पक्षेस परोक्षोऽर्थो विषयो भवन् साक्षाद्वा स्याद्, व्यवधानाद्वा पराश्रयेण, तत्र तावन्न साक्षात्; तस्यापरोक्षत्वप्रसङ्गात् प्रत्यक्षार्थवत्। यस्मादत एवासौ परोक्ष उच्यते; यतः साक्षान्न ज्ञानं जनयति, साक्षात्स चेज्ज्ञानं जनयेत्, कथमसौ परोक्ष इति वचनीयमेतत्। पराश्रयेणापि परोक्षार्थप्रतिपत्तिः सम्बद्धाद्वा स्याद्, असम्बद्धाद्वा, भेदाभासा वा स्याद्, अभेदाभासा वा-इति चत्वारः पक्षाः सम्भवन्ति । भेदाभासेतियथा-धूमसामान्यात्तार्णपार्णादिवह्निविशेषप्रतीतिः । अभेदाभासा यथा-धूमाद् विजातीयपरावृत्तवह्निमात्राध्यवसायिनी। तत्रासम्बन्धात् प्रतिपत्तावव्यवस्था स्यात्, यतः कुतश्चित् सर्वः प्रतीयेत। अथ भेदाभासा, तदा व्याप्तिः साध्येन हेतोर्न सङ्गच्छेत्; विशेषेणान्वयायोगात्। ततश्चानैकान्तिकं स्यात्। अथाभेदाभासा, तदाऽनुमान एवान्तर्भाव इति प्रतिपादयन्नाह
परोक्षविषया यावत्सम्बद्धार्थसमाश्रया।
अपरामृष्टतद्भेदा प्रतीतिरनुमा स्फुटा ॥१७०७॥ अपरामृष्टतद्भेदेति। भेदप्रतिभासशून्या विजातीयपरावृत्तार्थमात्राध्यवसायिनी। यथा धूमाद् वह्निमात्रप्रतीतिः । एवम्भूता चेत् ? स्पष्टमेवानुमानम्; सम्बन्धदर्शनोपायत्वात्, धूमाद् वह्निप्रतीतिवत् ॥ १७०२-१७०७॥
इति प्रमाणान्तरभावपरीक्षा॥
१ भेदाभासा-पा०, गा० ।
२. प्रमाणान्तरभाव:-जै०; प्रमाणांन्तरपरीक्षा-पा०, गा०।