________________
४०४
तत्त्वसंग्रह [G.474] प्रत्यक्षादीनां प्रमाणानामभाव: प्रमाणं प्रत्यक्षादिभ्यो भिन्नम् अभावशब्दवाच्यत्वात्, प्रमेयाभाववत्। अथ वा-अभावाख्यप्रमेयो धर्मी, तस्य स्वानुरूपप्रमाणप्रमेयत्वं साध्यम्, प्रमेयत्वादिति हेतुः, भावाख्यप्रमेयो दृष्टान्तः । यच्च स्वानुरूपं प्रमाणं तद् भावात्मकात् प्रत्यक्षादेरन्यदिति सिद्धम् ॥ १६५७-१६५८॥ तदत्रेत्यादिना प्रतिविधत्ते
तदत्र नित्यसत्त्वस्य परिणामो निराकृतः।
तद्विपर्ययसद्भाव: कादाचित्को न युज्यते॥१६५९॥ अनेन "आत्मनोऽपरिणामो वा" (तत्त्व० १६४८) इति प्रथमस्याभावलक्षणस्यासम्भवितामाह । तथा हि-पर्युदासवृत्त्या परिणामविपरीतोऽपरिणामः कादाचित्कोऽभिप्रेतो लक्षणत्वेन; अन्यथा हि यदि कादाचित्को नाभिप्रेतः; पर्युदासवृत्त्या स्यात्, तदा सर्वदैव वस्तुनोऽस्तित्वप्रतीति: स्यात्। स चापरिणामो यथोक्तो न सम्भवत्यात्मनः; यस्मानित्यसत्त्वस्य परिणामो निराकृतः, तस्मात् कुतस्तस्य विपरीतस्यापरिणामस्य पर्युदासवृत्त्या संश्रयणं भवेत् ! यत्र सत्त्व: आत्मा, नित्यश्चासौ सत्त्वश्चेति नित्यसत्त्वः । यद्वा-नित्यं सत्त्वम्=सत्ता यस्य स तथोक्तः । नित्य इति यावत्। तद्विपर्ययसद्भावइति । तस्य परिणामस्य विपर्ययः अपरिणाम:, स कादाचित्को न युक्तः, किं तर्हि ? सर्वदा भवन्नित्यैकरूपत्वादात्मैकः ॥ १६५९॥
अथ मतम्-अपरिणामो न परिणामविपरीतवस्त्वात्मकः। किं तर्हि ? परिणामप्रतिषेधमात्रात्मकः । येन नासम्भवि लक्षणं भवतीति? अत्राह
तत्प्रतिक्षेपमात्रात्मा स चेदत्र विवक्षितः।
सर्वदा वस्तुनाऽस्तित्वं गम्येतास्यानिवर्त्तनात्॥१६६०॥ तस्य परिणामस्य प्रतिक्षेप:=प्रतिषेधः, स एव तन्मात्रम्, तदेवात्मा स्वभावो यस्यापरिणामस्य स तथोक्तः । अस्येति । प्रतिक्षेपात्मनोऽपरिप्पामस्य; नित्यैकरूपत्वादात्मनः परिणामाभावात् ।। १६६०॥ अस्तु क्त्यभ्युपगम्यापरिणाममतिव्यापितां लक्षणदोषमाह
अस्तु वाऽपरिणामोऽस्य तथापि व्यभिचारिता। स्वापमूर्छाद्यवस्थासु तद्भावेऽप्यर्थसम्भवात्॥१६६१॥ प्रत्ययान्तरसद्भावे . तद्विविक्तान्यदर्शनात्। घटज्ञानादिरूपेण तस्यासाविष्यते यदि॥१६६२॥ द्वितीयादस्य कः पक्षाद् विशेषोऽभिहितस्तदा।
यद्विकल्पेन निर्दिष्टं पक्षद्वयमिदं त्वया ॥१६६३॥ [G.475] व्यभिचारितेति अतिव्यापिता। मूर्छादीत्यादिशब्देन व्यवधानपराङ्मुखाद्यवस्था गृह्यन्ते। तद्भावेऽपीति । घटादिज्ञानरूपेणापरिणतात्मद्रव्यसद्भावेऽपि । अर्थालम्बनप्रत्ययव्यतिरिक्तप्रत्ययान्तरसद्भावे सति घटादिविविक्तप्रदेशज्ञानमेवापरिणाम इष्यते; घटादिज्ञानारूपेणापरिणतत्वात्। तस्येति आत्मनः। असाविति अपरिणामः। एवं सति "विज्ञानं १. वस्तुतास्तित्वे०- पा०, गा० ।