________________
प्रमाणान्तरभावपरीक्षा कीदृशं पुनरस्य वस्तुत्वम् ? इत्याहकार्यादीनामभावः को योऽभाव:' कारणादिना॥१६५४॥
(शो० वा०, अभा० ८) क्षीरादेः कारणस्य यो भावः स एव दध्यादेः कार्यस्याभावः, कार्यस्य दध्यादेर्यो भावः स एव क्षीरादेः कारणस्याभाव इत्येतदभाववस्तुत्वम्॥१६५४॥ पुनरप्यनुमानेन वस्तुत्वमस्य प्रतिपादयत्राह
यद्वाऽनुवृत्तिव्यावृत्तिबुद्ध्योाह्यो यतस्त्वयम्।
तस्माद् गवादिवद् वस्तु प्रमेयत्वाच्च गम्यताम् ।।१६५५॥ अभावो वस्त्विति पक्षः, अनुवृत्तिव्यावृत्तिबुद्धिग्राह्यत्वात्, प्रमेयत्वाच्चेति हेतुद्वयम्, गवादिवदिति दृष्टान्तः ॥ १६५५ ॥
तत्रानुवृत्तिबुद्धिः-चतुर्वपि अभावोऽभावः' इत्येकाकारः प्रत्ययः । व्यावृत्तिबुद्धिः'प्रागभावोऽयं न प्रध्वंसाभावः' इत्यादिभेदाकारः प्रत्ययः। तत्र कुमारिलेन त्रिविधोऽभावो वर्णितः । आत्मनोऽपरिणाम एकः। पदार्थान्तरविशेषज्ञानं द्वितीयः; "साऽऽत्मनोऽपरिणामो वा विज्ञानं वान्यवस्तुनि'' (भो० वाo, अभा० ११) इति वचनात्। प्रमाणनिवृत्तिमात्रात्मकस्तृतीयः;
"त्रिलक्षणेन या बुद्धिर्जन्यते साऽनुमेष्यते।
न चानुत्पत्तिरूपस्य कारणाधीनता क्वचित्॥" (श्री० वा०, अभा० ४४) इति वचनात्। तत्रैतस्मिंस्तृतीयेऽभावे चोद्यमाशङ्कय परिहरन्नाह
• मानं कथमभावश्चेत् प्रमेयं चात्र कीदृशम् ? अथोच्यते-कथं प्रत्यक्षानुत्पत्तिलक्षणोऽभावः प्रमाणमिति? अत्रोच्यते.: मेयो यद्वदभावो हि मानमप्येवमिष्यताम्॥१६५६॥
(श्री० वा०, अभा० ४५) प्रमेयं चात्र कीदृशमिति वक्तव्यम्। किमत्र वक्तव्यम् ? अभावरूपं प्रमेयमिति चेत् ? एवं तर्हि यथाभूतं प्रमेयं तथाभूतमेव प्रमाणमितीष्यताम्। तत् किमुच्यते-मानं कथमभाव इति ! न हि लक्षणं प्रमाण युक्तम्॥ १६५६॥ भवत्वभावस्य प्रामाण्यम्, प्रत्यक्षादिभ्यस्तु भेदोऽस्य कथम्? इत्याह
अभावंशब्दवाच्यत्वात् प्रत्यक्षादेश्च भिद्यते।। प्रमाणानामभावो हि प्रमेयाणामभाववत्॥१६५७॥ अभावो वा प्रमाणेन स्वानुरूपेण मीयते। प्रमेयत्वाद् यथा भावस्तस्माद् भावात्मता पृथक्॥१६५८॥
(शू० वा०, अभा० ५४-५५)
१-१. स यो भाव:-पा०, गा०। ३-३. पा०, गा०, पुस्तकयो स्ति।
२. यतः स्वयम- पा०, गा। ४. प्रमाणं न-गा।