________________
४०२
तत्त्वसंग्रहे ३. गवि योऽश्वाद्यभावश्च सोऽन्योऽन्याभाव उच्यते।
(शो० वा०, अभा० २, ३) ४. पररूपं न तस्यास्ति 'नास्ति तेनात्मना' ततः॥१६५१॥ शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः। शशशृङ्गादिरूपेण सोऽत्यन्ताभाव इष्यते॥१६५२॥ न च स्याद् व्यवहारोऽयं करणादिविभागशः। प्रागभावादिभेदेन नाभावो विद्यते यदि॥१६५३ ॥
(श्री० वा०, अभा० ४, ७) [G.472] १. क्षीरमृदादौ कारणे दधिघटादिलक्षणं कार्यं नास्तीत्येवं यत् प्रतीयते लोके स प्रागभाव उच्यते। यदि तु प्रागभावो न भवेत्, क्षीरादौ दध्यादिकार्यं भवेदेव । २. एवं दधि क्षीराख्यस्य यन्नास्तित्वम्, अयं प्रध्वंसाभावः । अन्यथा दनि क्षीरं भवेदेव। ३. गवादावश्वादेरभावोऽन्योन्याभाव उच्यते । यस्मात् तस्य गवादेः पररूपमश्वादिस्वभावो नास्ति, तस्मान तयोरन्योऽन्याभाव उच्यते; अन्यथा गवादौ भवेदेवाश्वादि यद्यन्योन्याभावो न भवेत्। ४. शशशिरसोऽवयवा निम्ना वृद्धिकाठिन्याभ्यां रहिता विषाणादिरूपेणात्यन्तमसन्तोऽत्यन्तभाव उच्यते । यद्यपि चात्र वस्तुवृत्तेरन्योऽन्याभावः, तथापि लोकप्रसिद्ध्योक्तमत्यन्ताभाव इति। प्रायेण हि लोके सामानाधिकरण्येनैवेतरेतराभावव्यवहारः, यथा-गौरयं नाश्व इति, न तु शशोऽयम्, न विषाणमित्येवम्। यदि त्वत्यन्ताभावो न भवेत्, शशे शृङ्गं भवेदेव । तथा चाह कुमारिल:
"क्षीरे दधि भवेदेव दनि क्षीरं घटे पटः। शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्तिरात्मनि॥ अप्सु गन्धो रसश्चाग्नौ वायौ. रूपेण तौ सह। व्योम्नि सस्पर्शकास्ते च न चेदस्य प्रमाणता ॥"
(श्रो० वा०, अभा० ५-६) इति। तत्र-चैतन्यम् आत्मा, मूर्तिः काठिन्यम्। रूपेण तौ सहेति-तौ-गन्धरसौ, रूपसहितौ वायौ स्याताम्। सस्पर्शकास्त इति। ते रूपरसगन्धाः संह स्पर्शेन व्योनि-आकाशे स्युः। किञ्च-न च स्यात् कारणादिविभागेन लोकव्यवहारो यद्यभावस्य प्रागभावादिभेदेन भेदो न स्यात्, यथा-यो दध्यर्थी स क्षीरोपादानं करोति, न तु क्षीरार्थी दध्युपादानम्; तथा गवार्थी नाश्वमुपादत्ते, नाप्यश्वार्थी गाम्। इत्येवमादिकारणादिविभागेन व्यवहारः ॥ १६५०१६५३॥
अथापि स्याद्-यदि नाम चतुर्द्धा भेदोऽस्त जातः, तथापि वस्तुत्वेन भवितव्यम्' इत्येतत् कुतः? इत्याह
न चावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता। न ह्यवस्तुनो भेदो युक्तः; वस्त्वधिष्ठानत्वात्तस्य। तस्मादभावो वस्तु। १-१ नास्तिताऽस्यात्मना-पा०, गा०। २. गवादौ वस्त्वादे०-पा०, गा० । ३. शशीयं-पा०, गा०।
४. एतत्-पा०, गा०।