________________
प्रमाणान्तरभावपरीक्षा
४०१ ४. अभावविचारः अभावमधिकृत्याह
प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते। वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता ॥ १६४७॥
(श्रो० वा०, अभा० १) तत्र मीमांसकानां सदसल्लक्षणयोर्भावाभावयोर्वस्तुत्वम्, सर्वस्य च पदार्थस्य सदसद्रूपेण व्यात्मकत्वमित्यभ्युपगमः । तत्र सदसद्रूपेणोभयात्मके वस्तुनि व्यवस्थिते, यस्मिन् वस्तुरूपे= वस्त्वंशे, असद्रूपाख्ये, प्रमाणपञ्चकमर्थापत्तिपर्यन्तं न जायते। किमर्थम्? वस्तुसत्ताऽवबोधार्थम् वस्तुनः सत्तांशावबोधार्थम्। तत्र अभावांशे [G.471] प्रमेये, अभावस्य प्रमाणता। अनेन विषयोऽस्य केवलो निर्दिष्टः, न तु स्वरूपम्॥ १६४७ ॥ __ स्वरूपमस्य तर्हि कीदृशम् ? इत्याह
प्रत्यक्षादेरंनुत्पत्तिः प्रमाणाभाव इष्यते। प्रत्यक्षादेरर्थापत्तिपर्यन्तस्तस्यानुत्पत्तिः प्रमाणाभाव इष्यते। प्रमाणाभाव इति षष्ठीतत्पुरुषः, कर्मधारयो वा। क्वचित् पाठः-प्रमाणेऽभाव इति। तत्र निर्धारणे सप्तमी, जातावेकवचनम् । प्रमाणानां मध्येऽभाव: प्रमाणमित्यर्थः । यथोक्तं शबरस्वामिना-"अभावेऽपि नास्तीत्यर्थस्यासनिकृष्टस्य" (मी०द० शा० भा० १.१.५) इति।
अथ केयमनुत्पत्तिः? इत्याह. साऽऽत्मनोऽपरिणामो वा विज्ञानं वान्यवस्तुनि॥१६४८॥
__ (नो० वा०, अभा० ११) सा-प्रत्यक्षादेरनुत्पत्तिः, निषेध्याभिमतघटादिंपदार्थज्ञानरूपेणापरिणतं साम्यावस्थमात्मद्रव्यमुच्यते। घटादिविविक्तभूतलज्ञानं वा ॥ १६४८॥
ननु चाभाव इति वस्तुविरह उच्यते, तत् कथं वस्तुत्वमस्य, न हि वस्तुविरहो वस्तु भवति? इत्याशय. वस्तुत्वमभावस्य प्रतिपादयन्नाह_ . प्रमाभावाच्च वस्तूनामभावः सम्प्रतीयते।
चतुर्धा च विभिन्नोऽसौ प्रागभावादिभेदतः॥१६४९॥ यदि प्रमाणाभावो वस्तु न भवेत, ततश्च सर्वसामर्थ्यशून्यत्वादस्येति ततो नाभावप्रतीतिः स्यात्, प्रागभावादिभेदेन चतुर्धा च भेदोऽभावस्य न स्यात्, न चैवम्, तस्मादभावप्रतीत्यन्यथानुपपत्त्या चतुर्धा भेदेन लोकस्य व्यवहारान्यथानुपपत्त्या चाभावस्य वस्तुत्वम्। एतच्चार्थापत्त्याख्यं प्रमाणद्वयमित्येके। अन्ये तु-चतुर्धा च विभिन्नोऽसौ इत्येतदनुमानमिति वर्णयन्ति। एवं च प्रमाणयन्ति- 'अभावो वस्तु, भिद्यमानत्वात्, घटादिवत्' इति ॥ १६४९ ॥ कथं पुनरस्य चतुर्धा भेद इति प्रतिपादयन्नाह--
१. क्षीरे दध्यादि यन्नास्ति प्रागभावः स कथ्यते।
२. नास्तिता पयसो दधि प्रध्वंसाभावलक्षणम्॥१६५०॥ १. अभावोऽपि-पा०, गा०। २. पा०, गा० पुस्तकयो स्ति।
३. कल्प्यते-पा०, गा०।